________________
( ३६१ )
एभ्योऽनुपसर्गेभ्योभावाकत्रों रल स्यात् । व्यधः । जपः । मदः ॥४७॥ ब्यध०-। एकवचनेनापि निर्वाहे सत्यपि बहुवचननिर्देशः किमर्थ इति चेत् । उच्यते-व्याप्त्यर्थम्, तेन 'भावे' इति निवृतम् ॥४७॥
नवा क्वणयमहसस्वनः।।३।४८। अनुपसगेभ्य एभ्यो भावाकोरल् वा स्यात् । क्वणः । क्वाणः । यमः । यामः । हसः । हासः । स्वनः । स्वानः ॥४८॥ नवा क्वण०-। अप्राप्तविभाषेयम् । क्वाण इत्यादौ घन ॥४८॥
आङो रुप्लोः .१५॥३॥४६॥ आङ पराभ्यां रुप्लुभ्यां भावाकोरल वा स्यात् । आरवः, आरावः । आप्लवः ॥४९॥ आङो०-। रौतेर्घत्रि प्लवतेरलि नित्यं प्राप्ते विकल्पः ॥४६॥
वर्षविघ्नेऽवाद् ग्रहः ॥५॥३॥५०॥ अवपूर्वाद् अहेवर्षविध्नेऽर्थे भावाक!रल् वा स्यात् । अवग्रहः । अवग्राहः । वर्षविघ्ने इति किम् अवग्रहोऽर्थस्य ॥५०॥ वर्षविघ्नेऽर्थ इति--वर्षस्य वृष्टेः, विघ्नः प्रतिबन्धः, तस्मिन्नर्थ इत्यर्थः । 'युवर्ण०' ।५।३।२८। इति नित्यमलि प्राप्ते पक्षे घनः प्रवृत्त्यर्थ विकल्प- . विधानम् । 'ग्रहीश् उपादाने' अवपूर्वादतोऽनेनालि पक्षे घत्रि उपान्त्यवृद्धौ च-अवग्रहः, अवग्राहः,-वृष्टे: प्रतिबन्ध इत्यर्थः ॥५०॥