________________
( ३६० )
ह्वो भावाक!रल आहावादेशश्च निपात्यते । आहावो वीनाम् ॥४४॥ आहावो०-। आहूयन्ते वयः पानायास्मिन्नित्याहावो वीनामितिनिपानमित्यर्थः ।।४४॥
भावेऽनुपसर्गात् ।५॥३॥४५॥ अनुपसर्गात् भावे ह्वोऽल् स्यात् वा उश्च । हवः । भाव इति किम् । व्याप्ये ह्वायः । अनुपसर्गादिति किम् । आह्वायः ॥४५॥ भावे०-। भावाकलोरित्यस्यानुवृत्तेः सत्त्वादनुक्तऽपि 'भावे' भावार्थे प्रत्ययः स्यादेवेति भावग्रहणं व्यर्थमिति चेत् । उच्यते-'सन्नियोगशिष्टानां सहैव प्रवृत्तिः सहैव निवृत्तिः' इति न्यायेनोभयोरप्यर्थयोः सहैवानुवृत्तिः स्यादिति भाववत् कर्तृभिन्ने कारकेऽपि प्रत्ययः स्यादिति तद्वारणाय भावाभिधानमावश्यकम्, क्वचिदेकदेशानुवृत्तश्च विनिगमकप्रमाणव्याख्यानादिसापेक्षत्वेन तदाश्रयणापेक्षया 'व्याख्यानाद्वरं करणम्' इति न्यायेन भावपदग्रहणस्यैव लघीयस्त्वम् । ह्वान-हवः। व्याप्ये हाय इति-हूयते इति कर्मणि पनि ह्वाय इत्येव भवतीत्यर्थः । आह्वाय इति-अत्र घत्र - वेत्यर्थः ॥४५॥
हनो वा वध् च ॥५॥३॥४६॥ अनुपसर्गाद्धन्तेर्भावेऽल् वा स्यात् तद्योगे च हनो वध् । वधः । घातः ॥४६॥
हनो०-। घत्रि हनो घातादेशे-घातः ॥४६।।
व्यधजपमद्भयः ।।३।४७।