________________
( ३८७ )
. निपात्यन्ते । समन्ततो मितं निमितम् । निघा वृक्षाः । उद्धः प्रशस्तः । सङ्घः प्राणिसमूहः । अत्याधीयन्ते च्छेदनार्थ कुट्टनार्थ वा काष्ठादीनि यत्र तदत्याधानम् । उद्घनः । अपघनः शरीरावयवः । उपघ्नः आसन्न ।३६। । निघोद्ध०-- निविशेषं निश्चयेन वाहन्यन्ते ज्ञायन्ते-निघा वृक्षाः । उत्कर्षण हन्यते ज्ञायते-उद्घः प्रशस्तः । संहतिः संघः। उद्घन्यतेऽस्मिन्निति-उद्घनः । अपहन्यतेऽनेनेति-अपघन शरीरावयव इति। उपन्यते समीपे इति ज्ञायते-उपघ्न आसन्नः ॥३६॥
भत्तिनिचिताऽझो. घनः ।।३।३७।
हन्तेादावर्गेऽल्पनादेशश्च निपात्यते । मूत्तिः काठिन्यम् । अभ्रस्य धन । निचितं निरन्तरम् । घनाः केशाः । अमेघः । घनः ।३७।
मूत्तिः =। अभ्रस्य धन इति-मेघस्य काठिन्यं परिपूर्णत्वमित्यर्थः । घनाः केशा इति-निरन्तरा इत्यर्थः । घन इति=मेघ इत्यर्थः ॥३७।।
व्ययोद्रोः करणे ॥५॥३॥३८॥
एभ्यः पराद्धन्तेः करणेऽल घनादेशश्च निपात्यते । विघनः। अयोघनः । द्रुघनः ॥३८॥
व्ययो०=। ननु भावाकारित्यस्यानुवृत्तः सत्त्वात् कर्तृभिन्ने कारके विधीयमानः प्रत्योऽभिधानसामर्थ्यादिह करणे स्यादेवेति करणग्रहणमनावश्यकमिति चेत् ? उच्यते =अभिधानसामर्थ्यात् क्वचन करणार्थस्यैव प्रतीतिरस्तु, तथापि क्वचित् भावस्य कर्तृभिन्नकारकाणां चार्थतया प्रवेशो मा ज्ञायीति तद्वारणाय स्पष्टप्रतिपत्तये च करणग्रहणम् । अन्यथाऽत्र करणे