________________
संमद०-निपातनम् रूपनिग्रहार्थम्, तेनोपसर्गान्तरयोगे न भवति-प्रसंमाद:, संप्रमादः, अभिसंमादः ॥३३॥
हनोऽन्तर्घनान्तर्घणौ देशे।५।३।३४।
अन्तःपूर्वाद्धन्तेरल घनघणादेशौ च निपात्येते, देशेऽर्थे भावा- .. कोंः । अन्तर्घनः । अन्तर्घणो वा देशः। अन्तर्घातोऽन्यः ॥३४॥ हनो०- ‘अन्तर्' इत्यव्ययं मध्यार्थे वर्तते, 'हनंक हिंसा-गत्योः,' अन्तर्हण्यतेऽस्मिन्निति-अन्तर्हन इत्यादि, अत्र देशेऽन्तर्गता अन्य जना हन्यन्त इति । भावः ।३४।
प्रघणप्रघाणौ गृहांशे ॥५॥३॥३५॥ . प्रपूर्वाद्धन्तेहांशेऽर्थेऽल् घणघाणादेशौ च निपात्येते । प्रघणः । प्रघाणो वा द्वारालिन्दकः । प्रधातोऽन्यः ॥३५॥ प्रघण०-। गृहस्य द्वारदेशे द्वौ प्रकोष्ठको अलिन्दसंज्ञाको, एको बाह्योऽपर आभ्यन्तरः, तत्र वाह्यो प्रकोष्ठे निपातनमिदम्, प्रकर्षण हन्यते प्रविशद्भिजनैरित्यन्वर्थात् । तथा चात्र कर्मण्यल प्रत्ययः । यद्यपि सूत्रे गृहांशस्य सामान्येनार्थतयोपादानं तथापि प्रयोगार्थबलाद् द्वारप्रकोष्ठ एव. निपातनमिति लभ्यते, अन्यत्र घोव तस्मिन् परे च 'ञ्णिति घात्' ।४।३।१००। इति घातादेशः, तथा चाह-प्रघातोऽन्य इति ॥३५॥
निघोद्घसङ्घोद्घनाऽपघनोपघ्नं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ॥५॥३॥३६॥
हन्तेनिघादयो यथासङ्ख्यं निमिताद्यर्थेषु कृतघत्वादयोऽलन्ता