________________
(
३८५ )
अलि वाजेर्वीभावो न भवति, अघा.' ।४।४।२। इत्यत्र तयोर्वर्जनात् ॥३०॥
सृग्लहः प्रजनाक्षे ।।३।३१।
आभ्यां यथासङ्ख्यं प्रजनाविषयार्थवृत्तिभ्यां भावाकोरल स्यात् । गवामुपसरः । अक्षाणां ग्लहः । प्रजमाक्ष इति किम् । उपमारो भृत्य राज्ञाम् ॥३१॥ सृग्लह०-। प्रजनो गर्भग्रहणम् । गर्भग्रहणार्थ स्त्रीषु पुसां प्रथमं सरणमुपसर उच्यते । अक्षाणां ग्लह इति-ग्रहणमित्यर्थः, ग्रहः सूत्रनिपातनाल्लत्वम्, ग्लहिः प्रकृत्यन्तरं वा । उपसारो भर्त्य राज्ञामिति-भतिवेतनं तदर्थ नृपसमीपगमनमित्यर्थः ॥३१॥
प
र्माने ।।३।३२।.
पर्मानार्थाडावाकोरल स्यात् । मूलकपणः । मान इति किम् । पाणः ॥३२॥
घञोऽपवादोऽयं योगः। 'पणि व्यवहारस्तुत्योः पण्यते इति कर्मण्यलि-पणः, मूलकस्य पण:-मूलकपणः, मूलकादीनां संव्यवहाराथं परि'मितो मुष्टिरित्यर्थः । पाण इति-नात्र मानार्थः किन्तु सामान्यतो व्यवहारो वा स्तुतिर्वेति नास्य प्रवृत्तिरिति घनो भवतीत्यर्थः ॥३२॥
संमदप्रमदौ हर्षे ।।३॥३३॥ एतौ भावाकर्बोर्हर्षेऽर्थेऽलन्तौ स्याताम् । संमदः, प्रमदो वा स्त्रीणाम् । हर्ष इति किम् । समादः । प्रमादः ।३३।