SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ( ३८२ ) निष्पूयत इति कर्मणि घत्रि वृद्धाववाबेशे 'निर्दु ।' ।२।३।६। इति षत्वे च निष्पावः, अयं कडङ्गरे राजमाषे श्वेतशिम्बिधान्यादौ च वर्तते । ॥२१॥ रोरुपसर्गात् ।।३।२२॥ उपसर्गपूर्वाद्रौतेर्भावाकोंर्घस्यात् । संरावः।।२२॥ रोरुपसर्गात् । संरवणं-संरावः ।।२२।। भूश्यदोऽल् ॥५॥३॥२३॥ एभ्य उपसर्गपूर्वेभ्यो भावाकोरल् स्यात् । प्रभवः । संश्रयः । विघसः । उपसर्गादित्येव । भावः । श्रायः । घासः ॥२३॥ भूश्रयदो०-। 'अदंक भक्षणे' इनि सोपसर्गादतेरलि 'घस्ल.' ।४।४।१७। इति घसादेशे च विघसः । 'भूश्योः 'युवर्ण०' ।।३।२८। इति सिद्धरनेनालो विधानमुपसर्गा-देवेति नियमार्थम् । लकारो 'मिग्मीगो०' ।४।२।८। इत्यत्र विशेषणार्थः ॥२३॥ न्यादो नवा ।।३।२४। निपूर्वाददेरलि घस्लभावो ऽतो दीर्घश्च वा स्यात् । न्यादः। निघसः ॥२४॥ न्यादो०-। विकल्पेन निपातनात् निपातनाभावे पूर्वेण-निघस इति । ।। २४ ॥ संनिव्युपाद्यमः ॥५॥३॥२५॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy