________________
( ३८१ )
इङो भावाकोंर्घञ् स्यात् स चापादाने वा टित् । अध्यायः । उपाध्यायी । उपाध्यायः ॥१६॥
इङोऽपादाने०-। अध्ययनम्, अधीयत इति वा-अध्यायः । उपेत्याधीयतेऽस्या इति-उपाध्यायी । टिद्विधानसामर्थ्यात् स्त्रियां क्तिर्बाध्यते । उपेत्याधीयतेऽस्मादिति-उपाध्यायः । सर्वत्र 'नामिनो'० ।४।३।११। इति वृद्धिः, एदेतोः०' ।१।२।२३॥ इत्यादेशः ॥१६॥
श्रोर्वायुवर्णनिवृत्ते ।।३।२०। श्रोर्भावाकोरेष्वर्थेषु धस्यात् । शारो वायुः वर्णो वा। नीशार प्रावरणम् ॥२०॥ श्री०-- शीर्यते ओषधादिभिरिति-शारो वायुः, ‘श श् हिंसायाग्' इति धातुः, कर्मणि घत्र । मालिन्येन शीर्यत इति-शारो वर्णः, अत्रापि कर्मणि पत्र , शारः कर्बुरवणः । निवृत्त निवरणं प्रावरणमित्यर्थः इत्याह नीसार: प्रावरणम्, निशीर्यते शीताद्यपद्रवो येनेति वाक्यम्, करणे घा, 'बब्युपस० ३।२।८६। इति दीर्घत्वम्, नीशारो हिमानिलापहं वस्त्रमित्यर्थः ॥२०॥
निरभेः पूत्वः ।।३।२१॥
निरभिभ्यां यथा ङ्ख्यमाभ्यां भावाकोंर्घस्यात् । निष्पावः । अभिलावः ॥२१॥ निरम:०।- 'पू' इति पूग्पूडोः सामान्येन ग्रहणम् । यथासंख्यमिति'यथासंख्यमनुदेशः समानाम्' इति न्यायेन निरुपसर्गेण पुवः सम्बन्धः, अभिना च लुवः । ननु च 'पूग् पूङ् लू' इति वयो धातवः, उपसमी तु द्वौ, अतः संख्यावैषम्याद् यथासंख्येन न भवितव्यमिति चेत् । नपूरूपमुत्सृष्टानुवन्ध-सामान्यमेकमेव, ततो नास्ति वैषम्यमित्यदोषः ।