SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ( ३८० ) भवतीत्यर्थः । पद्यते, पत्स्यते, अपादि, पेढे वा–पादः, कालविशेषविवक्षाया अभाबात् कालत्रयेऽपि प्रत्ययो भवति । रोग इति–'क्तऽनिट:०' ।४।१।१११। इति जस्य गत्वम् ॥१६॥ सत्तः स्थिरव्याधिबलमत्स्से ।।३।१७। सत्तरेषु कर्तृषु धञ् स्यात् । सारः स्थिरः । अतीसारो व्याधिः : सारो बलम् । विसारो मत्स्यः ॥१७॥ सरति कालान्तरमिति-सारः स्थिरः ॥१७॥ भावाऽकोंः ॥५॥३॥१८॥ भावे कर्तृवर्जे च कारके धातोर्घ स्यात् । पाकः । प्राकारः। दायो दत्तः ॥१८॥ भावाऽकप्रोः-। पचनं-पाकः । प्रकुर्वन्ति तमिति कर्मणि घत्रिप्राकारः । दीयते इति कर्मणि घत्रि दायोदत्तः, कैश्वित् कर्तृ वजिते कारकेऽभिधेये संज्ञायामेव पत्र क्तः, स्वमते. तु न तथेति ज्ञापनाय द्वितीयमुदाहरणमसंज्ञायामुदाहृतम् । करणाधिकरणयोरनट् तदपवादश्च व्यञ्जनान्तेभ्यो घत्र वक्ष्यते । भावो भवत्यर्थः साध्यरूपः क्रियांसामाऱ्या धात्वर्थः, स धातुनवोच्यते तत्रैव च त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भावो धात्वर्थ धर्मः सिद्धता नाम लिङ्ग-संख्यायोगी स द्रव्य वद्धात्वर्थादन्यः, तत्रायं धत्रादिविधिः, तेन तद्योगे लिङ्गवचनभेद: सिद्धो भवति–पाकः-पाको-पाकाः, पचनम् पचने पचनानि, पक्तिः -पक्ती-पक्तय इति । ॥१८॥ इडोऽपादाने तु टिद्वा ॥५॥३॥१६॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy