________________
( ३७६ )
क्रियायां क्रियार्थायामुपपदे कर्मणः पराद्वय॑दर्थाद्धातोरण् स्यात् । कुम्भकारो याति ॥१४॥ कर्मणोऽण् -। 'कर्मणोऽण्' ।५।१।७२। इति सामान्येन विहितोऽण् णकचा पूर्वसूत्रविहितेन बाध्येतासरूपविधिश्च नास्तीति पुनर्विधीयते, सोऽपवादत्वाण्णकचं बाधते, परत्वात् सामान्यस्याणो बाधकान् टकादीनपि, वकगायो ब्रजति, सुरापायो व्रजति, गोदायो ब्रजति । कुम्भकारो यातीतिभविष्यकालिककुम्भकर्तृक कुम्भकरणोद्देश्यकं च यानमित्यर्थः ॥१४॥
भाववचनाः ।।३।१५॥
भावश्चता घक्तयादयः ते क्रियायां क्रियार्थायामुपपदे वर्त्यदर्थाद्धातोः स्युः । पाकाय, पक्तये, पचनाय, वा याति ॥१५॥ भाववचनाः- क्रियार्थोपपदेन तुमा मा बाधिषतेतिवचनम्, असरूपविध्यभावस्य ज्ञापितत्वात् । पाकाय, पक्तये, पचनाय वा यातीति 'डपचींपाके पचनं पाकः, अत्रानेन यञि 'क्त'ऽनिट०' ।४।१।११। इति चस्य कत्वम्, 'ञ्णिति' ।४।३।५०। इत्युपान्त्यवृद्धिश्च, 'तुमोऽर्थे ' ।२।२।६१। इति चतु
-पाकायेति, अत्र घत्रो भाववचनत्वं 'भावाककोंः ' ।५।३।१८। इति भावे विधानात् । एवमनेन क्तौ-पक्तये-अत्र क्त र्भाववचत्वं 'स्त्रियां क्तिः' ।५।३।६१। इति भावे क्तिविधानात् । पचनायेति-अत्रानेनानटप्रत्ययः, अनटो भाववचनत्वं च 'अनट्" ।५।४।२४। इति भावेऽनटो विधानात् । सूत्रे वचनग्रहणाद्य षां याभ्यः प्रकृतिभ्यः परे भाववाचकत्वं दृष्टं ते ताभ्य एव प्रकृतिभ्यः स्युः ।।१५।।
पदरुजविशस्पृशो घम् ।।३।१६। एभ्यो घञ् स्यात् । पादः । रोगः । वेशः । स्पर्शः ॥१६॥ . पदरू ज०-। वय॑तीति निवृत्तम् । 'कर्तरि' ।५।१।३। इति कर्तरि घा