________________
( ३७८ )
कारकः । करिष्यामीति वा याति । क्रियायामिति किम् । भिक्षि. व्ये इत्यस्य जटा । क्रियार्थायामिति किम् । धानतस्ते पतिष्यति वास ॥१३॥ वेति निवृत्तम् ‘णकत् चौ' ।।१।४८। इति सामान्येन सिद्ध क्रियार्थोपपदभाविन्या भविष्यन्त्या बाधा ना भूदिति णकज्विधानम्, असरूपविधिना णकोऽपि भविष्यतीति चेत् ? एवं तर्हि असरूपविधिना तृजादयो मा भूपन्निति पुनर्णकज्विधानम्. तेनोदनस्य पाचको व्रजति, पक्ता व्रजति, पचो व जति, विक्षिपो बजतीत्यादि न भवति । कर्तुम्, कारकः, करिष्यामीति वा यातीति 'डुकृग् करणे' 'क्त्वातुमम्भादे०।५।१।१३। इति भावेऽनेन तुमि अनुस्वारेत्त्वादिडभावे गुणे च-कर्तु मिति एवमनेन णकचि वृद्धावारादेशे च-कारक इति । अनिर्दिष्टार्थत्वात् कर्तरि'।५।१।३।इति कर्तरि णकच् । अनेन भविष्यन्त्यां-करिष्यामिती-हनृप्तः स्यस्य' ।४।४।४। इतीट् । यथा हि नामार्थद्वयोरभेदातिरिक्तः सम्बन्धो न भवति समानत्वात्, तथा क्रिययोरप्यभेद एव सम्बन्धः स्यात्, स चानुपपन्न उभयोः परस्परं भिन्नार्थकत्वात्। अन्यस्य सम्बन्धस्य शब्दोपस्थितस्याभाबाच्चानन्वयापत्तरिति 'इति' शब्देनोभयोः सम्बन्धः क्रियते, इतिशब्दो निमित्तार्थकः, एवं च यथा कतु यातीत्यत्र भविष्यत्कालिककृत्युद्देश्यकं वर्तनकालिकयानमित्यर्थः, यथा वा कारको यातीत्यत्रापि स एवार्थः, केवलमत्र णकचा कर्तृत्वमपि प्रतीयते यथा भविष्यत्कालिककृति कर्तृ कतादृशकृत्योहेश्यकं च यानभित्यर्थः । तथेहापि भविष्यत्कालिककृत्युददेश्यकं यानमित्येव बोधः, स चेतिशब्दसहकारेणैव, एवमन्यत्र प्यूह्यम् ।भिक्षिष्ये इत्यत्र जटा न धारणक्रियामुखेनोक्ता अपितु द्रव्यत्वेनेति भिक्षिष्ये इत्यत्रभविष्यत्सामान्ये भविष्यन्त्येव, न तु तुम्णकचावपीतिभावः । यदि च भिक्षितुम् इत्यपि क्वचिच्छ यते तहि स धारयतीत्यध्याहत्यैत्र कथञ्चिद् व्याख्येयः । धावतस्ते पतिष्यति वास इति-धावूग् गतिशुद्धयोः' इत्यस्य "सृगतो' 'वेगे सर्तेर्धात्' ।४।२।१०७। इत्यादेशरय वा शतरि षष्ठये कवचने-धावतः' अत्रोपपदभूता धावनक्रिया, किन्तु न सा पतनार्थमुपादीयते, किन्तु अन्यार्थं धावतस्तस्य गात्रचाञ्चल्यादिना वासः पतितः ॥१३॥
कर्मणोऽण् ।५।३।१४॥