________________
"
३७७ )
प्रषादिरित्याह- प्रीषादिरिति 'प्र' षाऽनुज्ञाऽवसरे० ' |५|४| २६ | इति प्रषादिषु कृत्याः, पञ्चमी, च विधीयन्ते, न्यत्कारपूर्विकारणा प्रषः, अनुज्ञा कामचारानुमतिः, अतिसर्ग इति यावत् अवसर प्राप्तकालता, निमित भूतकालोपनतिरिति यावत्ः एवं हि विधिनिमन्त्रणाधीष्टसं प्रश्न प्रार्थने' |५|४| ४५ । इति सप्तमी पञ्चमी च विधीयेते । आगच्छतीति--'गम्लृ गतौ' आङ पूर्वादतोऽनेन वर्तमानायां शवि 'गमि० ' | ४|२| १०६ | इति छादेशे ‘स्वरेभ्यः' ।१।३।३० । इति छस्य द्वित्वे पूर्वस्य च 'अघोषे० ' | १ | ३ |५० इति चादेशे च - आगच्छति । आगच्छतीत्यत्र “गमोऽनात्मनेः | ४|४|११| इतीट् श्वस्तनीता प्रत्यये 'एकस्वरां ० ' |४| ४|५६ । इती भावे नां०' ||३|३६| इति मस्य ने = आगन्तेति । 'इक् अध्ययने' नित्यमधिपूर्वोऽयम्, ततः पञ्चमीमध्यम्पुरुषस्य स्वे परे - अधीष्व । अत्र भविष्यदुपाध्यायागमनम - ध्यनादिविषयस्य प्रषस्यातिसंर्गस्य प्राप्तकालतायाश्च हेतुर्भवति ॥ ११, ।
सप्तमी चोर्ध्व मौहूर्तिके | ५|३|१२|
ऊर्ध्वमुहूर्ताद्भत्र ऊर्ध्वमौहूर्तिकः तस्मिन्पञ्चम्यर्थहेतौ वत्स्यत्यर्थे वर्त्तमानाद्धातोः सप्तमी वर्त्तमाना च वा स्यात् । ऊर्ध्वमुहूर्त्तादुपाध्यायश्वेदागच्छेत्, आगच्छति, आगन्ता वा । अथ त्वं तर्कमधीष्व ॥ १२ ॥
:
-
ऊर्ध्वं मुहूर्त्तादिति ऊर्ध्व मुहूर्त शब्दः, 'नाम नाम्ने० ' |३|१|१८| इति ममासः। ऊर्ध्व मुहूर्त्तशब्दाद्भवार्थे 'अध्यात्मा० | ६ |३|७८ । इतीकणि, अस्मादेव निर्देशादुत्तरपदवृद्धौऊर्ध्वं मौहूर्तिकः ऊर्ध्वमुहूर्त्तादुपाध्यायश्चेदागच्छेदित्यवसामान्य भविष्यति भविष्यन्त्यां गमिष्यतीत्यपि भवति ||१२||
क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती |५|३।१३। यस्माद्धातोस्तु नादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्स्यदर्थाद्धातोस्तुमादयः स्युः । कर्तुम्,