________________
( ३७६ )
-
-
-
लिप्सायां गम्यमानायां वर्त्यदर्थाद्धातोर्वतमाना वा स्यात् । को भवतां भिक्षां ददाति । दास्यति । दाता वा। एवं कतरः।। कनमः । किंवृत्त इति किम् । भिक्षा दास्यति । लिप्सायामिति । किम् । कः पुरं यास्यति ॥६॥ किंवृत्ते:०=। लब्धुमिच्छा-लिप्सा तस्यां लिप्सायामिति - डुलभिष प्राप्ती' अत इच्छायां सनि 'रभलभ०४।१।२१।। इति पूर्वस्येत्वे द्वित्वाभावे च 'लिप्स' इत्यतो भावे 'शंसिप्रत्ययात्' ।५।३।१०५॥ इति स्त्रियामप्रत्यये आपि चलिप्सा । भिक्षां दास्यतीति-यद्यप्यन लिप्साद्योतकमपि पदं नास्ति, किमादिप्रयोगे सा स्पष्टं प्रतीयते, तथापि वक्त : स्वरादिवैचित्र्यादेव प्रकरणवशा वा लिप्सा प्रतीयत इति किंवृत्तपदा भावे स्यादेवेह वर्तमानेति भावः । कः पुरं यास्यतीति=अत्र गमनविषयकप्रश्न एव न तु लिप्सेति नास्य प्रवत्तिः ॥६॥
लिप्स्यसिद्धौ ।।३।१०। लब्धुमिष्यमाणाद्भक्तादेः सिद्धौ फलावाप्तौ गम्यायां वयंवर्थाद्धातोर्वर्तमाना वा स्यात् । यो भिक्षां ददाति, दास्यति, दाता वा स स्वर्गलोकं याति, यास्यति याता वा ॥१०॥ लिप्स्य० । अकिंवृत्तार्थोऽयमारम्भः भक्तादेः-ओदनादेरित्यर्थः ॥१०॥
पञ्चम्यर्थहतौ ।।३।११। पञ्चम्यर्थः प्रषादि: तस्य हेतुरुपाध्यायागमनादिः तस्मिन्नणे वय॑ति वर्तमानाद्धातोर्वर्तमाना वा स्यात् । उपाध्यायश्वेदागच्छति, आगमिष्यति, आगन्ता वा अश, त्वं सूत्रमधोपच ॥११॥. पञ्चमीविधाने निमित्तभूतो योऽर्थः स पञ्चम्यर्थः; स च