SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ( ३७५ ) अनुशोचने गम्ये वय॑दर्थाद्धातोः श्वस्तनी स्यात् । इयं तु कदा गन्ता, यैवं पादौ निधत्ते ॥६॥ परिदेवने । अनुशोचन इति=अनु पश्चात्, शोचनं तद्विषयकदुःखप्रकटनमित्यर्थः । भविष्यत्सामान्यस्य विवक्षाया पूर्वेण श्वस्तन्या अप्राप्ती सूत्रमिदम् । विशेषविधानात् कदाकहिलक्षणा विभाषा बाध्यते ॥६॥ . पुरायावतोर्वर्त्तमाना ।।३।७। अनयोरुपपदयोर्वर्ण्यदर्थाद्धातोर्वर्त्तमाना स्यात् । पुरा भुङ्क्ते । यावद्भुङ्क्ते ॥७। पुरायावतो० । भविष्यदनद्यतेऽपि परत्वाद् वर्तमानैव भवति-पुरा श्वो भुङ्क्त', यावच्छ्वो व्रजति ॥७॥ कदाको र्नवा ।।३।। अनयोरुपपदयोर्वय॑दधातोर्वर्त्तमाना वा स्यात् । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ता। कर्हि भुङ्क्ते । कहि भोक्ष्यते । कहि भोक्ता ॥८॥ कदाको । सामान्यतो भविष्यति विहिताया वर्तमानाया अभावे, अनद्यतने भविष्यति श्वस्तनी, सामान्ये भविष्यति भविष्यन्ती भवति । ॥८॥ किंवृत्ते लिप्सायाम् ।।३।। विभक्तिडतरडतमान्तस्य किमो वृत्तं किंवृत्तं तस्मिन्नुपपदे प्रष्टु
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy