________________
( ३७५ )
अनुशोचने गम्ये वय॑दर्थाद्धातोः श्वस्तनी स्यात् । इयं तु कदा गन्ता, यैवं पादौ निधत्ते ॥६॥
परिदेवने । अनुशोचन इति=अनु पश्चात्, शोचनं तद्विषयकदुःखप्रकटनमित्यर्थः । भविष्यत्सामान्यस्य विवक्षाया पूर्वेण श्वस्तन्या अप्राप्ती सूत्रमिदम् । विशेषविधानात् कदाकहिलक्षणा विभाषा बाध्यते ॥६॥ .
पुरायावतोर्वर्त्तमाना ।।३।७।
अनयोरुपपदयोर्वर्ण्यदर्थाद्धातोर्वर्त्तमाना स्यात् । पुरा भुङ्क्ते । यावद्भुङ्क्ते ॥७। पुरायावतो० । भविष्यदनद्यतेऽपि परत्वाद् वर्तमानैव भवति-पुरा श्वो भुङ्क्त', यावच्छ्वो व्रजति ॥७॥
कदाको र्नवा ।।३।। अनयोरुपपदयोर्वय॑दधातोर्वर्त्तमाना वा स्यात् । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ता। कर्हि भुङ्क्ते । कहि भोक्ष्यते । कहि भोक्ता ॥८॥
कदाको । सामान्यतो भविष्यति विहिताया वर्तमानाया अभावे, अनद्यतने भविष्यति श्वस्तनी, सामान्ये भविष्यति भविष्यन्ती भवति । ॥८॥
किंवृत्ते लिप्सायाम् ।।३।।
विभक्तिडतरडतमान्तस्य किमो वृत्तं किंवृत्तं तस्मिन्नुपपदे प्रष्टु