SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ( ३७४ ) कष्टा दिशस्तमसा । अनिट इति किम् । कषिताः शत्रवः ॥३॥ कषोऽनिटः=| कृच्छ् दुःखम्, गहनं दुष्प्रबेशम् । 'कषः कृच्छ्रगहने' ।४।४।६७॥ इति क्तयोः कषोऽनिटत्वमुक्तम् । कषिष्यतीति क्त 'तवर्गस्य.' ।१।३।६०॥ इति तस्य टेकप्टमिति । कषिताः शत्रव इति=निर्मूलिता इत्यर्थः । अन्न कषः कृच्छ्रगहनयोर-भावाद-निटत्वं नास्तीति तो भविष्यति न भवति, अपि तु भते । 'कर्षिष्यतीति कष्टम् । 'इत्यत्र कषिष्यतीति तु अर्थकथनमात्रम् यतः कष्टगहनार्थयोः वर्पति क्त एव भवति, असरूपविधिरपि नेष्टः, पूर्वत्र वाग्रहणात् ॥३॥ भविष्यन्ती ।।३॥४॥ वर्त्यदर्थाद्धातोर्भविष्यन्ती स्यात् । भोक्ष्यते ॥४॥ भविष्यन्ती=। 'भुजंप पालनाभ्यव-हारयोः' अभ्यवहारी भोजनम् । त्राणादन्यत्र 'भुनजोऽत्राणे' ।३।३।३७॥ इत्यात्मनेपदे-भोक्ष्यते इति'लघोरूपान्त्यस्य' ।४।३।४॥ इति गुणः, 'चजः कगम्' ।२।१।८६॥ इति जस्य गः, तस्य अघोषे०' ।१।३।५०॥ इति कः, 'नाम्यन्तस्था०' ।२।३।१५। इति सस्य षः ॥४॥ अनद्यतने श्वस्तनौं १५॥३॥५॥ नास्त्यद्यतनो यत्र तस्मिन् वय॑त्यर्थे वर्तमानाद्धातोः श्वस्तनी स्यात् । कर्ता । अनद्यतन इति किम् । अद्य श्वो वा गमिष्यति ॥५॥ अनद्यतनें श्वस्तनी=| 'डुकृग करणे' अतः श्वस्तनीताप्रत्ययेऽनुस्वारेत्त्वादिडभावे गुणे च=कर्ता ॥५॥ परिदेवने ।५॥३॥६॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy