________________
( ३६६ )
एभ्यः सदर्थेभ्यः करणे त्रट् स्यात् । नेत्रम् । दात्रम् । शस्त्रम् । योत्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ़म् । पत्त्रम् । पात्री । नध्री ॥८॥ नी-दाव्-"नयत्यनेन नेत्रम् । दात्यनेन-दात्रम् ।।८।।
हलक्रोडास्थे पुवः ।।२।।
सदर्थात्पुवो हलक्रोडयोमुखे करणे ब्रट् स्यात् । पोत्रम् ॥८६॥ हल-"पुनाति पवते वाऽनेन-पोत्रम्, हलस्य सूकरस्य च मु-खमुच्यते ।.८६॥
दंशेत्रः ।।२।। सदादंशेः करणे त्रः स्यात् । दंष्ट्रा ॥१०॥ "दशत्यनया---दंष्ट्रा । प्रत्ययान्तरकरणमाबर्थम्, अन्यथा टित्त्वाद् ङीः स्यात् ॥१०॥
धात्री ।।२।६१॥
. धर्धांगो वा कर्मणि त्रट् स्यात् । धात्री ॥९१॥ धात्री-'नीदाव' ।५।२।८८। इति सूत्रे धाशब्दपाठेनैव 'धे पाने' 'डुधांग्क् धारणे च' इत्यनयोर्ग्रहणसम्भवे धात्रीत्यस्य सिद्धावपि तस्य करणार्थकत्वात् निपातनमाश्रितमित्याह---कर्मणीति । धयन्ति तामिति---धात्री स्तनदायिनी, अथवा--दधति तां भैषज्यार्थमिति धात्री-आमलकी ॥१॥
ज्ञानेच्छार्थिनीच्छील्यादिभ्यः क्तः ।।२।२।