________________
। ३७० )
ज्ञानेच्छार्थेिभ्यो ओम्द्यः शील्यादिभ्यश्च सदर्थेभ्यः क्तः स्यात् । राज्ञां ज्ञातः राज्ञामिष्टः । राज्ञां पूजितः । भिन्नः । शोलितः । रक्षितः ॥१२॥ ज्ञानेच्छा---"अत्र सकर्मकेभ्यः, कर्मणि, अकर्मकेभ्यः कर्तरि क्तः प्रयुज्यत इति इति कथं लभ्यमिति चेद् उच्यते---एतद्विषये न किमपि विशेषतो विधेयमपि त्वस्मिन्नध्याये प्रथमपादादौ यथा यस्माद्धातोर्यः प्रत्ययो यत्रार्थे विहितस्तत्र व स्यात्, केवलं भूतार्थविषयत्वमेव न स्वीकर्तव्यमिति वर्तमानकालमात्रस्यैवाज्ञ विशेषतो विधेयत्वम् । 'ज्ञांश् अवबोधने" अतः सकर्मकत्वात् कर्मणि क्त ऽनेन वर्तमानकालतायां---राज्ञां ज्ञातः इति---'क्तयो०' ।२।२।११। इत्यत्र वर्तसानकालवर्जनान्न षष्ठीनिषेधः इति ‘कर्तरि ।२।२।०६। षष्ठयां राज्ञामिति, अनुस्वारेत्त्वादिडभावे च---ज्ञात इति, राजभियिमान इत्यर्थः । 'इषत् इच्छायाम्' राज्ञामिष्ट: इति---'सहलुभे०' ।४।४।४६। इति वेट्त्वात् 'वेटोऽपतः' ।४।४।६२। इति क्त परे इडभावे षकारयोगे तकारस्य टकारे---इष्ट इति, राजभिरिष्यमाण इत्यर्थः । 'पूजण् पूजायाम्' राज्ञां पूजितः इति---राजभिः पूज्यमान इत्यर्थः । सर्वत्र 'ज्ञानेच्छार्चा०' ।३।१।८६। इति समासाभावः ॥१२॥
उणादयः ।।२।६३।
सदर्थाद्धातोरुणादयो बहुलं स्युः । कारुः । ईडुः ॥६३॥ . उणादयः"ननु किं नाम बहुलमिति वेद् । उच्यते---क्वचित् प्रवृत्तिः, क्वचिदप्रवृत्तिः, क्वचिद्विभाषा, क्वचिदन्यदेव । विधेविघानं बहुधा समीक्ष्य, बाहुलकं चतुर्विधं वदन्ति ॥१॥ इति । 'डुकृग करणे' करोतीति-कारू:, ।।१३।।
* इति पञ्चमस्याध्यायस्य द्वितीयः पादः *