SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ( ३६७ ) एभ्यः शीलादिसदर्थेभ्यो वरः स्यात् । स्थावरः । ईश्वरः । भास्वरः । पेश्वरः । विकस्वरः॥१॥ स्थेश-तिष्ठतीत्येवंशीलः-स्थावरः ॥१॥ यायावरः ।।२।१२। यासेर्यङन्ताच्छीलादिसदर्थाद् वरः स्यात् । यायावरः ॥२॥ यायावरः--"कुटिलं यातीत्येवंशीलो-यायावरः ।।२।। दिधु ददृज्जगज्जुहूवाक्प्राधीश्रीद्र स्र ज्वायतस्तूकट परिवाभाजादयः क्विप् ।।२।८३। एते क्विबन्ताः शोलादौ सत्य निपात्यन्ते । दिद्युत् । ददृत् । जगत् । जुहूः । वाक् । तत्वप्राट् । धीः । श्रीः । शतद्रूः । स्त्रः। जूः । आयतरतूः । क्टः । परिबाट । विभ्राट् । भाः ८३॥ विद्युत्---"द्योतत इत्येवंशीलोदि-द्युत्, दणातीति-ददृत्, गच्छतीति-जगत्, जुहोतीति-जुहूः, एषु द्वित्वम, दृणातिजुहोत्योह स्वत्वदीर्घत्वे च । वक्तीति• वाक्, तत्त्वं पृच्छतीति-तत्त्वप्राट्, दधाति ध्यायति वा-धीः, श्रयतीति-श्री:, शतं द्रवतीति-शतः, स्रवतीति-स्र :, जवतीति-जूः, आयतं स्तोतीतिआयतस्तूः, कटं प्रवते-कटप्र :, परिव्रजतीति-परिवाटः एषु ढीर्घत्वम्, दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः। विभ्राजत इति-विभ्राट् । भासत इति-भाः । शीलादिष्वसरूपबिधिर्नास्ति, तेन-सामान्यलक्षणः . क्विप् न प्राप्नोतीति पुनर्विधीयते । शीलादिप्रत्ययानां पूर्णोऽवधिः ॥३॥ शंसंस्वयंविप्राद् भुवो डुः ।।२।०४।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy