________________
( ३६५ )
'म्नां०' | ३|१| ३६ | इति ङत्वम् । भासते इत्येवंशीलं = भासुरम् । मेद्यति, ^ मेदते वेत्येवं शीलं = मेदुरम् ||७४||
वेत्तिच्छिदभिदः कित् ।५।२।७५।
एयः शीलादिसदर्थेभ्यः कित् घुरः स्यात् । विदुरः । छिदुरः । भिदुरः ॥७५॥
वेति० - । वेत्तीत्येवंशीलो - विदुरः । छिद्यते भिद्यते स्वयमेवेत्येवंशील:छिदुर:, भिदुरः, किरवाङ्गुणो न भवति । वेत्तीति तिनिर्देश इतरविदित्रयव्युदासार्थः ।।७५।।
भियो रुरुक़लुकम् ।५।२।७६।
शीलादिसद
॥७६॥
1
मियो- बिभेतीत्येवंशीलो भीरुरित्यादि, कित्त्वात्सर्वत्र गुणाभावः । ननु ऋफिडादो भीरुकशब्दपाठेन लत्वे सिद्ध पृथग्लुकप्रत्ययस्य विधानमुचितमिति । उच्यते— 'ऋफिडादीनां ० ' |२| ३ | १०४ | इति सूत्र े पठिता ऋफिडादयो न स्वभावतः क्वचन परिगणिताः, किन्तु प्रयोगत एवानुसर्तव्या इति के तत्र ग्राह्याः के नेति विचारस्य लक्ष्यानुरोधितया ज्ञानगौर'वाधायकत्वाद् वरं लुक् प्रत्ययस्य पार्थक्येन विधानम् ||७६ ||
यः त एते स्युः । भीरुः । भीरुकः । भीलुकः
सृजीणनशष्ट्वरप् । ५२ । ७७ ।
एम्यः शीलादिसदर्थभ्यः कित् ट्द्वरप् स्यात् । सृत्वरी । जित्वरी ।
इत्वरः । नश्वरः ॥७७॥
सजी० - सरतीत्येवंशीला - सत्वरी, 'हस्वस्य ० ' | ४|४|११३॥ इति तागमः,