________________
प्रात्सूजोरिन् ।।२।७१॥ आभ्यां प्रात्पराभ्यां शीलाद्रिसदाभ्यां इन् स्यात् । प्रसवी । प्रजवी ॥७१॥ प्रात् । 'सू' इति निरनुबन्धग्रहणात् सुवतेर्ग्रहणम्, न सूतिसूयत्योः । प्रसुवतीत्यवंशील:=प्रसवी ॥७१॥
जीणदृक्षिविश्रिपरिभूवमाभ्यमाव्यथः ।।२।७२। एभ्यः शीलादिसदर्थेभ्य इन् स्यात् । जयी । अत्ययो । आदरी।। क्षयो। विश्रयी। परिभवी । वमी । अभ्यमी । अव्यथी ॥७२॥ जयतीत्येवंशीलो=जयी । क्षयीति क्षीति क्षिक्षितोर्ग्रहणम् ॥७२॥
सृघस्यदो मरक् ।।२।७३। एभ्यः शीलादिसदर्थेभ्यो मरक स्यात् । समरः'। घस्मरः । अमरः ॥७३॥ सघस्यदो०=| सरतीत्येवंशीलः समरः ॥७३।।
भञ्जिभासिमिदो घुरः ।।२।७४। एभ्यः शीलादिसदर्थेभ्यो घुरः स्यात् । भगुरम् । भासुरम् । मेदुरस ॥७॥ भज्यते स्वयमेवेत्येवंशीलं-भङ्गुरमिति घुरस्य पित्त्वात् , 'क्त निट:०' ।४।१।१११। इति जस्य गत्वम्, नकारस्थानीयत्रकारस्य