________________
वेदः -विदहतीत्येवंशील:-विदाही ॥४॥
परेर्देविमुहश्च ।।२।६५॥ परिपूर्वाभ्यां शीलादिसदाभ्यामाभ्यां दहेश्च घिनण् स्यात् । परिदेवी । परिमोही। परिदाही ॥६५॥.
. परेदेवि०- । देवीति देवधातोरण्यन्तस्यण्यन्तस्य च ग्रहणम् दीव्यतेर्यन्त- . स्य तु न, तस्य देवीति रूपस्य लक्षणिकत्वात् । परिदेवते परिदेवयति वापरिदेवी ॥६॥
क्षिपरटः ।।२।६६। परिपूर्वाभ्यामाभ्यां शीलादिसदाभ्यां घिनण् स्यात् । परिक्षेपी । परिराटी ॥६६॥ क्षिप०-। परिक्षिप्यति परिक्षिपति वा परिक्षेपी ॥६६॥
वादेश्च णकः।।२।६७। परिपूर्वाच्छीलादिसर्थाद्वादयतेः, क्षिपरटिभ्यां च णकः स्यात् । परिवादकः । परिक्षेपकः। परिराटकः ॥६७॥ वादेश्च०-। परिवादयतीत्येवंशीलः-परिवादकः । सामान्यकर्तरि विहिता अपि प्रत्ययाः प्रकरणवशेन शीलादिविशिष्टमपि कर्तारमभिधास्यत एव, सर्वविशेषस्य सामान्यान्तर्गतत्वात, तथा च कर्तरि विहितो ‘णकतची' ५।१४८। इति णकप्रत्ययः शीलार्थेऽपि वाऽसरूपविधिना भविष्यत्येवेति सूत्रमिदं व्यर्थमिति । न । 'असरूपत्वात्०' ५।१४८। इति सिद्ध पुनर्विधानं शीलादिप्रत्ययेष्वशीलादिकृत्प्रत्ययोऽसरूपविधिन भवतीति ज्ञापनार्थम्, तेन ‘णकतृचौ' ।५।१४८। इति णके, 'नाम्युपान्त्य० ।५।१॥५४॥ इति के