________________
( ३६१ )
एभ्यः पराल्लषेः शीलादिसदर्थाद् घिनण् स्यात् । विलासी । अपलाषी, अभिलाषी ॥ ६० ॥
व्यपा० - । विलषतीत्येवंशीलः - विलाषी ॥ ६०॥
सम्प्राद्वसात् ।५।२।६१|
अभ्यां पराद्वसतेः शीलादिसदर्थाद् घिनण् स्यात् । संवासी । प्रवासी ॥ ६१ ॥
संवसतीत्यवंशीलः -संवासी । शव्निर्देशावस्तेर्न भवति ॥ ६१ ॥
समत्यपाभिव्यभेश्चरः । ५।२।६२।
एभ्यः पराच्चरेः शीलादिसदर्थाद् घिनण् स्यात् । सञ्चारी । अतिचारी । अपचारी । अभिचारी । व्यभिचारी ॥ ६२ ॥
संचरतीत्येबंशील :- सञ्चारी ॥ ६२ ॥
समनुव्यवाद्रधः | ५।२।६३॥
एभ्यः पराच्छीलादिसदर्थाद्र्धो घिनण् स्यात् । संरोधी । अनुरोधी। विरोधी । अवरोधी ॥ ६३ ॥
1
समनु० - । संरुन्धे इत्यवंशील : - संरोधी ॥ ६३ ॥
वेहः | ५|२| ६४ |
विपूर्बाच्छीलादिसदर्थाद्दघनण् स्यात् । विदाही ॥ ६४ ॥