________________
( ३६० )
संपरिव्यनुप्राद्वदः ।।२।५८। शीलादिसदर्थादेभ्यः परादेधिनण् स्यात् । संवादी । परिवादी। विवादी । अनुवादी। प्रवादी ॥५८॥ संपरि०-। नच 'संवेः सृजः' ।५।२।५७) इति सूत्रात् संवि चकारेणानुकृष्यास्य सूत्रस्यार्थो संजायते, तस्मात् संविग्रहणमनर्थकमिति वाच्यम्,.. 'विपरिप्रात्' ।।२।५४॥ इति सूत्रेऽस्याः शङ्काया निराकृतत्वात्, नन्वत्र सूत्रे संविग्रहणमकृत्वा चकारकरणे लाघवं भवेदिति न पूर्वसूत्रेणोत्तरितत्वमिति चेत्सत्यम्-पूर्वसूत्रानुसन्धानं विनाऽपीदृशार्थावगत्यर्थमत्र सूत्रे संविग्रहणम्, एतेनानुसंधानलक्षणगौरवापत्तिरपि न, यतः क्वचिदर्थावगतयेऽपि क्लिष्टतास्वरूपो गौरवो न भवेदिति मात्रागौरवं करोत्या चार्यः, यथा 'स्योजस०' ।११।१८। इति सुपामिति बहुवचनम् । . अत्राप्यर्थावगतये गौरवो न भवेदिति. बहुवचनं कृतमस्ति तथाहि 'तदादेशाः तद्वतवन्ति' इति न्यायेन साध्यसिद्धि' भविष्यति, किं बहुवचनेन ? सत्यम्-न्यायं विनाऽपीत्थं साधितम् । इयं महती शक्तिर्यत्परिभाषां न्यायान् चविनाऽपि साध्यत इति । साध्यसिद्धिः स्याद्यादेशानामपि प्रथमादिसंज्ञाप्रतिपत्तिः । अन्यदपि प्रयोजनं. दृश्येत, तदातदप्यादरणीयमेवेति विद्वद्भिग्यम् । संवदतीत्यवंशीलः-संवादी ॥५॥
विचकत्यस्त्रम्भकषकसलसहनः ।।२।५६।। शोलाविसदर्थेभ्यो विपूर्वेभ्य एभ्यो घिनण् स्यात् । विवेकी । विकत्थी । विनम्भो, विकाषी । विकासी।विलासी। विघाती॥ विच०-। विविनक्तीत्येवंशीलः 'क्त'ऽनिट:०।४।१।१११। इति चस्य के विवेकी । विघातीति-'ञ्णिति घात्' ।४।३।१००। इति घातादेशः ॥५६॥
व्यपाभेर्लषः ।।२।६०॥