SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ( ३५६ ) विपरिप्रात्सः | ५|२।५५॥ एभ्यः पराच्छीलादिसदर्थात्सदर्थात्सत्त घिनण् स्यात् । विसारी । परिसारी | प्रसारी ॥५५॥ विपरीति यद्यपि ' वेश्च द्रो:' ।५।२।५४ इति सूत्रात् चकारेण विमनुकृष्य विशब्दात्सते- घिनं सिध्यति, तथापि विपरिप्रात्सर्ते:, इति सूत्रं कृत्वा घिनण करणेऽपि एकस्या अपि मात्राया गौरवो न जायत इत्येतादृशं सूनकरणमपि युक्त प्रतिभाति । अथवा चकारानुकर्षणेन घिनण्करणे गौरवो भवेत् तथाहि चकारं कृत्वानुकर्षणे प्रथमं चकारार्थानुसंधानं कार्यम्, पश्चात्पूर्वसूत्रस्यानुसंधानं कार्यम् तथा विशब्दार्थस्यानुसंन्धानं कार्यम्, तदेतत्सूतार्थलाभो संजायेतेति विग्रहणम् । अत्र सूत्रे विग्रहणे तु केवलविशब्दार्थस्यानुसंधानेन' वार्थलाभो भवति विसरतीत्येवंशीलो -विसारी ।। ५५।। समः पृचैपज्वरे: ।५।२।५६ ॥ शीलादिसदर्थाभ्यां समः पराभ्यां पृणक्तिज्वरिभ्यां घिनण् स्यात् । संपर्क । संज्वरी ॥ ५६ ॥ सम: ० - । 'पृचैप संपर्दो' संपृणक्तीत्येवंशीलः - संपर्की । पिन्निर्देशाद् 'पृचैप् सन्पचने' इति पृचेरादादिकस्य न ग्रहणम् । संज्बरतीत्येवंशील:संज्वरी ॥ ५६ ॥ संवेः सृजः ।५।२।५७| शीलादिसदर्थात्संवियां परात्सृजेधिनण् स्यात् । संसर्गी । विसर्गी ॥ ५७ ॥ संवेः० - । संसृजतीत्येबंशीलः संसृज्यते वा संसर्गी, 'क्त' ऽनिट: ० ' |४|१|१११ इति जस्य गः ॥ ५७ ॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy