________________
( ३५८ )
आङः क्रीडमुषः ।५।२॥५१॥ शीलादिसदर्थाभ्यामाभ्यां आपूर्वाभ्यां घिनण् स्यात् । आनीडी। आमोषी ॥५१॥ .. आङः०-। आक्रीडते इत्येवंशील:-आक्रीडी । शीलादिप्रत्ययान्ताः प्रायेण रूढिप्रकारा यथादर्शन मुक्तोपसर्गे-प्रयुज्यन्त इति उपसर्गान्तरे उपसर्गाधिक्ये वा शीलादिप्रत्यया न भवन्ति । एवमुत्तरत्रापि ॥५१॥
प्राच्च यमयसः ।।२।५२।
शीलादिसदाभ्यामाङः प्राच्च पराभ्यामाभ्यां घिनण् स्यात् । प्रयामी। आयामी । प्रयासी ।आयासी ॥५२॥ प्राच्च०-। प्रयच्छतीत्येवंशील:-प्रयामी ॥५२॥
मथलपः ।।२।५३। प्रात्पराभ्यामाभ्यां शीलादिसदाभ्यां घिनण् स्यात् । प्रमाथी। प्रलापी॥५३॥ मथलप:-। प्रमथतीत्येवंशीलः-प्रमावी ॥५३॥
वेश्च द्रोः ।।२।५४॥ वेः प्राच्च परात् द्रो शीलादिसदर्थाद् घिनण् स्यात् । विद्रावी । प्रदावी ॥५४॥
वेश्च द्रोः- विद्रवतीत्यवंशील.-विद्रावी ॥५४॥