________________
( ३५७ )
maina
. जञ्जपूकः । दन्दशूकः । वावदूकः ॥४७॥ यजि० =| भृशं पुनः पुनर्वा यजतीत्यवंशीलो--यायजूकः ।।४७।।
जागुः ।।२।४८। शीलादिसदज्जिागुरूकः स्यात् । जागरूकः ॥४८॥ जागुः--। यड: इति निवृत्तम् । जागर्तीत्यवंशीलो-जागरूकः ॥४८॥
शमष्टकात् घिनण् ।।२।४६। शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो घिनण् स्यात् । शमी। दमी । तमी । श्रमी । भ्रमो । क्षमी । प्रमादी । क्लमी ॥४६॥ शमष्टकाद्०-। शांम्यतीत्येवंशील:-शमी । घन्तान्मत्वर्थीयेन सिद्ध्यति तृत्बाधनार्थं तु वचनम् । णकारो वृद्धयर्थः। घकारः उत्तरत्र कत्वगत्वार्थः ॥४६॥
युजभुजभजत्यजरञ्जद्विषदुषद् हदुहाभ्याहनः ॥५॥२॥५०॥ शीलादिसंदर्थेश्य एभ्यो घिनण् स्यात् । योगी । भोगी । भागी।
त्यागी । रागी । द्वषो । दोषी। द्रोही। दोही। अभ्याघाती । ___अकर्मकादित्येव । गां दोग्घा ॥५०॥
गुज-मुज०-। युज्यते युनक्ति वा इत्येवंशीलो योगी। भुङ्क्त भुनक्ति भुजतीति वा भोगी। रागीति–'अघिनों' ।४।२।६०। इति नलोपः । गां दोग्घेति-अत्र तृनि 'भ्वादे०' ।२।१८३॥ इति, 'अधश्चतुर्था०' ।२।१।७६) इति, 'ततीय० ॥१॥३॥३९॥ इति च-दोग्धा ॥५०॥