________________
( ३५६ )
व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितो ङितश्च धातोः शीलादिसदर्थादनः स्यात् । स्पर्द्धनः । वर्त्तनः । व्यञ्जनाद्यन्तादिति किम् । एधिता। शयिता । अकर्मकादित्येव । वसिता वस्त्रम्
॥४४॥
इङितो० - । "एधि वृद्धौ” एधत इत्येबंशील इति तृनि एधिता । "वासिक आच्छादने " वस्त इत्येवंशील इति तृनि वसिता वस्त्रम् ॥४४॥ .
न णिङ्यसूददीपदीक्ष: ।५।२।४५ ।
णिङन्तात् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्योऽनो न स्यात् भावयिता । क्ष्मायिता । सूदिता । दीपिता' । दीक्षिता ॥४५॥
न णिङि० "भुङ प्राप्तौ णिङ" | ३ | ४ | १६ | इति वचनाद् धातोः प्राप्यर्थ
त्वं ङित्वं, णिङ् च, भावयत इत्येबंशील इति 'तृन् शील०' | ५|२|२७| इति
"
तृनि भावयिता । 'क्ष्मायैङ् विधूनने' क्ष्मायते इत्येवंशील इति क्ष्मायिता ।। ४५ ।।
मक्रमो यङ् |५|२|४६ ॥ शीलादिसदर्थाभ्यां यङन्ताभ्यामाम्यामनः स्यात् दन्द्रमणः । चङ्क्रमणः ।।४६।।
द्रम० = | कुटिलं द्रमति क्रामतीत्येवंशीलः = दन्द्रमणः, चङ्क्रमणः । सककार्थं वचनम्, य इति प्रतिषेधनिवृत्त्यर्थं च । 'अतः ' | ४ | ३ |२| इति हि लुक् प्रत्यये विषयभूतेऽपि भवति ॥ ४६ ॥
यजिजपिदं शिवदादूक: ।५।२।४७ ॥
एम्यो यङन्तेभ्यः शीलादिसदर्थेम्य ऊकः स्यात् । यायजूकः ।