________________
( ३५५ )
शीलादिसदर्थेभ्य एभ्य उकण् स्यात् । अभिलाषुकः । प्रपातुकः। उपपादुकः ॥४१॥ लष०-। अभिलषतीत्येवंशील:-अभिलाषुकः । योगविभाग उत्तरार्थः ॥४१॥
भूषाक्रोधार्थजुसृगृधिज्वलशुचश्चानः ॥५॥२॥४२॥ भूषार्थेभ्यः क्रोधार्थेभ्यो ज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽनः स्यात् । भूषणः । कोधनः। कोपन। जवनः। सरणः । गर्द्धन । ज्वलनः। शोचनः । अभिलषणः। पतनः । अर्थस्य पदनः ॥४२॥ ... ... भूषा०- भूषयतीत्येवंशीलो भूषणः । जवति सौत्रो वेगाख्ये संस्कारे वर्तते, तेन चल्यर्थद्वारेण न सिध्यतीतीहोपादानम् । पदेरिदित्त्वादुत्तरेणैव सिद्ध सकर्मकार्थ व वनम्, “इङितो०' ।५।२।४४। इति सूत्रे 'चलशब्दार्थाद' ।५।२।४३॥ इति सूत्रे स्थितस्य 'अकर्मकाद्' इत्यस्यानुवर्तनात् 'इङितो.' ।५।२।४४। इत्यस्याकर्मकादेव प्राप्तेः, पदधातुः स्वभावतः सकर्मक एव, अविवक्षितकर्मतयैव क्वचिदकर्मकत्वमिति, एवत्सर्वं मनसि निधायाहअर्थस्य पदन इति, अर्थज्ञानशील इत्यर्थः ॥४२॥
चलशब्दार्थादकर्मकात् ।।२।४३। चलार्थाच्छब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकादनः स्यात् । चलनः । रवणः । अव र्मकादिति किम् । पठिता विद्या ॥४३॥ चल०-। चलतीत्येवंशील:-चलनः ॥४३।।
इडितो व्यञ्जनाद्यन्तात् ।।२।४४।