________________
( ३५२ )
सम्भिक्षाशंसेरुः ।५।२॥३३॥ शीलादिसदल्सिन्नन्ताद् भिक्षाशंसिभ्यां च उः स्यात् । लिप्सुः । भिक्षुः । आशंसुः ॥३३॥
सन्भिक्षा०-। सूत्र ‘सन्' शब्द उपात्तः, स च द्विविधः-'तुमर्हा०'. ।३।४।२१ इति विहितः सन् प्रत्य रूपः, षन संभक्तौ इति ‘षणूयी दाने' इति धातुगणपठितः सन् धातुरूपः, तत्र कस्येह ग्रहणमिति विचारणायां भिक्षिसाहचर्याद्धातोरेव ग्रहणमित्याशङ्कामपनेतुमाह-सन्नन्तादितिः-प्रत्ययं विना 'सन्नन्तादित्यर्थो न ज्ञायते इति प्रत्ययग्रहणमिति ज्ञायते । प्रत्ययग्रहणे 'प्रत्ययः प्रकृत्यादेः' ।७।४।११५। 'विशेषणमन्तः' ।७।४।११३। इति सन्नन्तादित्यर्थों लभ्यते । 'तुमर्हाः' ।३।४।२१। इति सन्नन्तादनेनोप्रत्यये अतः' ।४।३।१२। इत्यकारलोपे लिप्सुः । आङ् शंस्' इति 'आ शस्ङ इच्छायाम' इत्यस्य ग्रहणम्, न तु “शंस् स्तुतौ च' इत्यस्य, तत्राङ्योगस्यानियतत्वात ॥३३॥
विन्दु-इच्छू ।।२।३४॥ शीलादिसदाभ्यां वेत्तीच्छतिभ्यामुर्यथासङ्ख्यं नुपान्त्यच्छान्तादेशौ च निपात्येते । विन्दुः । इच्छु ॥३४॥ विन्द्विच्छू०- वेदनशीलो-विन्दुः । एषणशील इच्छुः ॥३४॥
श वन्देरारुः ।।२।३५॥ आम्यां शीलादिसदाभ्यां आरुः । स्यात् । विशरारुः । वन्दारुः ॥३५॥ श वन्दे०-। विशीयंत इत्येवंशील इति-विशरारुः, 'श श् हिसायाम्' इति धातुः अयमपि कर्तयेव प्रत्ययः, 'विशीर्यते' इत्यत्र कर्मणः कर्तृत्वविवक्षायां 'एकालो०' ।४।३।८६ इति क्य आत्मनेपदञ्च ‘वदुङ्स्तुत्यभिवादनयोः'