________________
.. ( ३५१ )
. आभ्यां शोलादिसदर्थाभ्यां ष्णुक् स्यात् । भूष्णुः । जिष्णुः॥३०॥
भूजे०:-। ककारः कित्कार्यार्थः । 'भू सत्तायाम्' भूष्णुः। 'जि जये'जिष्णुः ॥३०॥
स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ।।२।३१॥ एभ्यः शीलादिसदर्थेभ्यः स्नुः स्यात् । स्थास्नुः। ग्लास्नुः । म्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः ॥३१॥
स्था-ग्ला० । 'ष्टां गतिनिवृत्तौ स्थास्नुः । ग्लै हर्षक्षये' इह हर्षक्षयो धात्वपचयः-ग्लास्नु:, 'ग्लैं गात्रविनामे' विनामः कान्तिक्षयः-म्लास्नुः । 'डुपची पाके' पचतीत्येवंशील इति स्नो 'चजः कगम्' ।२।१।८६॥ इति चस्य के 'नाम्यन्तस्था०' ।२।३।५॥ इति सस्य षे 'रषवर्णा०' ।२।३।६३॥! इति नस्य णे पक्ष्णुः । 'मृजोक् शुद्धौ' परिमाष्टीत्येवंशीलः इति स्नी 'लघोरूपान्त्यस्य' ।४।३।४। इत्युपान्त्यगुणे 'मृजोऽस्य' ।४।३।४२॥ इति वृद्धी 'यजसज०।२।१।८७। इति जस्स षत्वे 'षढोः ।२।११६२।। इति षस्य कत्वे 'नाम्यन्त स्था०' ।२।३।१५॥ इति प्रत्ययसकारस्य षत्वे नस्य णत्वे च--परिमाणु: । 'क्षि क्षये' 'क्षित् निवासगत्योः'-क्षेष्णु:-अत्र नाम्यन्तलक्षणो गुणः, नामिनः परतया सस्य षः, 'क्षिषश् हिंसायाम्' इत्यस्य न सानुबन्धत्वात् ॥३१॥
प्रसिगृधिधृषिक्षिपः क्नुः ॥५॥२॥३२॥ एभ्यः शीलादिसदर्थेभ्यः क्नुः स्यात् । त्रस्नुः। गृध्नुः । धृष्णुः । क्षिप्नुः ॥३२॥
वसि०-। 'त्रसैच् भये'-त्रस्नुः । 'गृधच अभिकाङ्क्षायाम्'-गृध्नुः । 'त्रिधृषाट् प्रागल्भ्ये'-धृष्णुः क्षिपंच प्रेरणे' 'क्षिपीत् प्रेरणे'-क्षिप्नुः । अत्र प्रत्ययस्य कित्त्वात् सर्वत्र गुणाभावः ॥३२॥