________________
( ३५०
)
धात्वर्थसम्पादने साधुत्वं यत्र विवक्ष्यत इत्येवं क्रमेणार्थः कार्यः । कृधातोरनेन तनि गुणे सौ=कर्ता कटमिति='तन्नदन्ता०' ।।२।१०। इति षष्ठीनिषेधाद द्वितीया, करणमस्य शीलमित्यर्थः। मुण्डां कुर्वन्तीति णिचि अन्त्यस्वरादिलोपेऽनेन तृनि इटि गुणेऽयादेशे जसि-वधूमढां मुण्डयितारः श्राविष्ठायना इति='श्राविष्ठायन' इति गोत्रविशेषस्य नाम, तद्गोत्रीया जना वधूमूढां मुण्डन्तीति तेषां धर्मः धर्मः कुलाद्याचारः। गन्ता खेल इति खेटं लीलया गच्छतीति खेलः, खेटे यो . . लीलया गच्छति स साधु गच्छतीत्यर्थः ॥२७।।
भाज्यऽलङ्कग्निराकृग्भूसहिरुचिवृति वृधिचरिप्रजनापअप इष्णुः ।।२।२८॥ एभ्यः शोलादिसदर्थेभ्य इष्णुः स्यात् । भ्राजिष्णु: । अलङ्करिष्णुः। निराकरिष्णुः । भविष्णुः। सहिष्णुः। रोचिष्णुः । वत्तिष्णू । वद्धिष्णुः । चरिष्णुः । प्रजनिष्णुः । अपत्रपिष्णुः । ॥२८॥ भाज्यलङ्कग्०-। भ्राजनशीलो भ्राजनधर्मा साधु भ्राजते वेति 'भ्राजि दीप्तौ' इति ‘भ्राज्' धातोरिष्णौ-भ्राजिष्णुः ॥२८॥ .
उदः पचिपतिपदिमदेः ।।२।२६। उत्पूर्वेभ्य एभ्यः शीलादिसदर्थेभ्य इष्णुः स्यात् । उत्पचिष्णुः । उत्पतिष्णुः । ऊत्पदिष्णुः । उन्मदिष्णुः ॥२६॥ उदः पचि-। पतेर्नेच्छन्त्यन्ये।
भूजेः ष्णुक् ।।२।३०।
.