________________
( ३४९ )
संयोगान्तलक्षणे तलोपे व्यञ्जनान्तलक्षणे सिलोपे च धारयन् आचाराङ्गम् । अधिपूर्वात् 'इक् अध्ययने' इत्यतोऽतृशि इयादेशोः समानदीर्घे च 'अक्षीयन्' इत्यतः सौ — अधीयन् द्र मपुष्पीयमिति -- दशवेकालिकसूत्रस्य प्रथममध्ययनमित्यर्थः । इङ आनशि प्राप्ते धारेः शत्रानशौ: प्राप्ती वचनम् । वासरूपोऽपि नेष्यते एव || २५ ||
सुद्विषार्हः सत्रिशत्रु स्तुत्ये | ५ | २|२६|
सदर्थेभ्य एभ्यो यथासङ्ख्यं सत्रिणि शत्रौ स्तुत्ये च कर्त्तर्य तृश् स्यात् । सर्वे सुन्वन्तः । चौरं द्विषन् । पूजामर्हन् । एष्विति किम् । सुरां सुनोति ॥ २६ ॥
0
सुग्- द्विषा - ऽर्हः ० - सत्री - यजमानः । सर्वे सुन्वन्त इति यागे यजमाना एव ऋत्विग्भिः कर्तव्यं सोमाभिषवणं कुर्वन्तीति यजमाना इत्यर्थोऽनेन वाक्येन लभ्यते, 'षु', 'अभिषवे' क्लेदनं सन्धाख्यं पीsनमन्थने वाऽभिषवः, अतो शिश्नुविकरणे वादेशे सुन्वन्तः । 'द्विषीर् अप्रीती' अतोऽतृशि - चौरं द्विषन् -- 'द्विषो वाऽतृशः । २२८४ | इति विकल्पेन कर्मणि षष्ठीति द्वितीया भवति, शत्रुरित्यर्थः । 'अर्ह पूजायाम् ' अतोऽतृशि शवि पूर्वाकारलोपे सौ-पूजाम् — अर्हन्- स्तुत्य इत्यर्थः । सुरां सुनोतीति-अर्थनिर्देशस्याभावे सामान्यसूत्रेणापि 'शत्त०' अन स्यादिति सूत्रस्यानर्थक्येन एष्वेवार्थेषु 'एभ्यो धातुभ्य इति नियामकं सूत्रमिदमावश्यकमिति भावः ॥२६॥
तनुशीलधर्मसाधुषु |५|२|२७|
शीलादिषु सदर्थाद्धातोस्तृन् स्यात् । कर्त्ता कटम् । वधूमूढां मुण्डयितारः श्राविष्टायनाः । गन्ता खेलः ॥ २७ ॥
=
तृन् शील० = | शीलादिष्विति - शीलादिरर्थो धात्वर्थस्य विशेषणम्, तथाहि धात्वर्थः शीलं यत्र विवक्ष्यते, एवं धात्वर्थो धर्मत्वेन यत्र बिचक्ष्यते,