________________
( ३४८ )
पूडो ङित्त्वात् 'इङितः०' ।३।३।२२। इत्यामनेपदम्, यजेरीदित्त्वात् फलवति कर्तरि 'ईगितः' ।३।३।१५। इत्यात्मनेपदमित्याभ्यामप्यात्मनेपदस्य प्राप्त्या पूर्वसूत्रणेबानशः सिद्धया रूपे विशेषाभावेन सूत्रस्य वैयर्थ्यमिति । न । आनशा योगे. 'तृप्तार्थ०' ।३।११८५। इति सूत्रेण षष्ठीसमासनिषेध उक्तः, न च यजेरफलवति कर्तर्यानश्प्रत्ययोऽस्तीति वचनम्, एव मुत्तरत्रापि । शकार: शिकार्यार्थः ॥२३
वयः शक्तिशोले ।५२।२४।
एषु गम्येषु सदर्थाद्धातोः शानः स्यात् । स्त्रियं गच्छमानाः । समइनामाः । परान्निन्दमानाः ॥२४॥
वय शक्ति०–'वयः-प्राणिनां कालकृता बाल्याद्यवस्था । स्त्रियं गच्छमाना इति-स्त्रीगमनं तद्योग्यमवस्थाविशेषं द्योतयति, 'गम्लगती इति 'गम्' धातुः परस्मैपदी, अतः शाने शवि 'गमि०' ।४।२।१०६। इत्यन्तस्य छादेशे मागमे च गच्छमानाः । समश्नाना इति-शक्तिः सामयम्, समीहितकार्यसम्पादतयोग्यतेति यावत् । सम्यग्भोजनकर्तृत्वं सामर्थ्यद्योतकमेव, नासमर्थो भोक्त मपि प्रभवति, कुतः सम्यग्भोजनम्, अशश् भोजने' अतः शाने श्नाविकरणे समा योगे-समश्नानाः । परान् निन्दमाना इति-शीलं स्वभावः, परनिन्दा न सर्वसाधारणी प्रकृतिः, किन्तु कस्यचिदेव स्वभावः । । विभावः । 'णिदु कुत्सायाम्' इति निन्द्' धातो: शाने शवि मागमे च-निन्दमानाः । अत्रानभिधानान्न वाऽसरूपः शत: ।।२४।।
धारीडोऽकृच्छतृश् ।५।२।२५॥ सुख साध्ये सत्यर्थे वर्तमानाद् धारेरिङश्च परोऽतृश् स्यात् । धारयन्नाचाराङ्गम् । अधीयन् द्रु पुष्पीयम् ॥२५॥ धारीडो०--'चुरादेराकृतिगणत्वेन 'ग्ण धारणे' इत्यत्तो णिचि वृद्धौ 'धारि' इत्यतोऽनेनातृशि शवि गुणे पूर्वाकारलोपे-धारयत्, ततः सौ नागमे