________________
( ३४७ )
भवति । मा पचन् वृषलो ज्ञास्यति-माङ निषेधे, वृषलो दासजातिः, 'पचन् इति' शतप्रत्ययान्तः, भूतकालिकपचनाभावविशिष्टो वृषलोऽग्रे ज्ञास्यतीति प्रयोगार्थः । मा पचमानोऽसौ मर्तु काम इति-पचमान इत्यानश्प्रत्ययान्तः, मतु कागो यस्य स मर्तु कामः, 'तुमश्च०' ।३।२।१४०। इति मलोपः, भूतकालिकपचनाभावविशिष्टोऽसौ मरणेच्छुरिति प्रयोगार्थः । 'एव' इत्यवधारणे तेनात्र विषयेऽसरूपविधिनाप्यद्यतनी न भवति ॥२१॥
वा वेत्तेः क्वसुः ।।२।२२।
सदद्वत्तेः क्वसुर्वा स्यात् । तत्त्वं विद्वान् । विदन ॥२२॥ 'मण्डकप्लुति' न्यायेन 'सति' इत्यस्यात्रानुवर्तनादाह-सदादिति । सूत्र वावचनात् पक्षे शतृप्रत्ययो वर्तमाना विभक्तिश्चापि भवति तत्त्वं विद्वानिति-'विदक ज्ञाने' अतः क्वसौ सौ 'ऋदुदितः ।१।४।७०। इति स्वरात् परतो नागमे 'न्स्-महतोः' ।१।४।१६। इति दीर्घे संयोगान्तलक्षणे सकारलोपे चविद्वान्, एवं शंतरि नागमे संयोगान्तलक्षणे तलोपे च-विदन्, उभयत्र व्यञ्जनान्तत्वात् सिलोपः क्वसौ ककार: कित्कार्यार्थः । उकारो ड्याद्यर्थः । अत्र 'असरूपो०' ।५।१।१६। इति विकल्पे सिद्ध वाग्रहणमत्र प्रकरणेऽसरूपविधेर्लक्ष्यानुरोधार्थम्, अत एव 'वयः-शक्ति०' ।५।२।२४। इत्यत्रानभिधानान्न वाऽसरूपः शतृरित्युक्तम् ॥२२॥
पूड्यजः शानः ।।२।२३।
आभ्यां सदाभ्यां परः शानः स्यात् । पवमानः । यजमानः ॥२३॥ पुङ यजः०-शाने शकारोऽनुबन्धः आन' अवशिष्यते । अर्थविशेषोक्ति विना विहितः शानः ‘कर्तरि' ।।१।३। इति कर्तरि भवति । 'पूङ् पवने' पवते इति शाने शवि गुणेऽवादेशे 'अतो म आने' ।४।४।११४॥ इति मागमे च पवमानः । 'यजी देवपूजासङ्गतिकरणदानेषु' यजति यजते वेति शाने शवि मागमे च यजमानः । 'पराणि०' ।३।३।२०। इत्यानश आत्मनेपदसंज्ञा,