________________
( ३४६ )
अत्र क्रियान्तरव्यवधानेऽप्यध्ययनादिक्रियायाः प्रारम्भापरिसमाप्ति रस्त्येव परैर्भूतभविष्यद्भन्नत्वं वर्तमानत्वमिति मत्वा पर्वतादीनां सर्वकाले स्थितत्वेन तत्र वर्तमानाप्रयोगः कथमित्याशङ्कितं तदुत्तरयति - तिष्ठन्ति पर्वता इति अत्र स्फुटैव प्रारम्भापरिसमाप्तिः, 'ष्ठां गतिनिवृत्तौ ' इति स्थाधातोवर्तमानान्तिप्रत्यये शवि 'श्रीति०' | ४|२| १०८ | इति तिष्ठादेशे' पूर्वाकारलोपे च = तिष्ठन्ति ॥ १६ ॥
शत्रानशावेष्यति तु सस्यौ |५|२|२०|
सदर्थाद्धातोः शत्रानशौ स्यातां भविष्यन्तीविषयेऽर्थे स्य-युक्तौ । यान् । शयानः । यास्यन् । शयिष्यमाणः ॥ २० ॥
शनानशा ० - शत्-प्रत्यये शकार ऋकारश्चानुबन्धी 'अत्' इत्यवशिष्यते, आनशि च शकारोऽनुबन्ध:, 'आन' इत्यवशिष्यते, 'नवाऽऽद्यानि० ' | ३ | ३|१६| इति शत: परस्मैपदत्वात् स परस्मैपदिनो धातोर्भवति । 'पराणि ० ' ।३।३।२०। इत्यानश आत्मनेपदत्वात् स आत्मनेपदिनो धातोर्भवति 'यांक् प्रापणे तो शतरि समान दीर्घे च- ' यात्' शब्दः, अतो घुटि सौ परे 'ऋदुदितः ' | १|४|७० । इति स्वरात्परतो नागमे संयोगान्तलोपे च यान् । 'शीक् स्वप्ने' अतो आनशि 'शीरू: ए शिति' | ४ | ३ | १०४ । इत्येकारेऽयादेशे च 'शयान' शब्दः, तस्य प्रथमायां शयानः । एष्यदर्थे स्यसहिते शंतरि याधातो:यास्यन् । स्यसहित आनशि शीधातो - शयिष्यमाण: - ' अतो म आने ' | ४|४|११४ | इति मोन्तः ॥ २० ॥
तौ माङघाकोशेषु |५|२|२१|
माङ्युपपदे आक्रोशे गम्ये तौ शत्रानशावेव स्याताम् । मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः ॥ २१ ॥
'शात्रानशो' - रनुवृत्तावपि 'तो' ग्रहणमवधारणार्थ - मित्याह - 'शत्रानशा-वेवेति । सतीत्यनुवर्तत इति भूतादो न स्यादिति । न । बहुवचनाद सत्यपि