________________
( ३४५ )
. 'कुर्वत्' शब्दस्य द्वितीयैवचनेऽमि कुर्वन्तमिति ॥१७॥
नन्वोर्वा ।।२।१८॥ नन्वोरुयपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद्धातोर्वा वर्तमाना स्यात् साच सद्वत् । किमकार्षीः कटं चैत्र । न करोमि भोः । न कुर्वन्तं मां पश्य । नाकार्षम् । नु करोमि भोः । नु कुर्वाणं मां पश्य । न्दकार्षम् ॥१८॥ नन्वो०- न निषेधे, नु बितर्के पादपुरणे च । अत्र वर्तमानाविधानस्य वैकल्पिकत्वात पक्षेऽद्यतनीत्याह नाकार्षमिति-किमकार्षीरिति प्रश्नेऽद्यतन्याः प्रयोगेण प्रतिवचनेऽपिपशेऽद्यतन्येव प्रयुक्ता-नाकर्षमिति, यदि च ह्यस्तन्या प्रश्नः कृतः स्यात् तदा सैवोत्तरेऽपि प्रयुज्येत, किन्तु नात्राद्यतनादीनां विवक्षेति सामान्य भतार्थकतयाऽद्यतन्यैव प्रश्नस्तयैव पाक्षिकमुत्तरमिति । कृधातुमात्मनेपदिनमाश्रित्यानशि उविकरणे धातोगुणेऽत उकारे उविककरणस्य वा देशे नस्य णत्वेऽमि कुर्वाणमिति, कुर्वन्त-मित्यर्थः ।।१८।।
सति ।।२।१६।
वर्तमानार्थाद्धातोर्वर्तमाना स्यात् । अस्ति कूरं पचति। मांसं न भक्षयति । इहाधीमहे । तिष्ठन्ति पर्वताः ॥१६॥ सति०-। सन्-विद्यमानो वर्तमान इत्यर्थः, स च प्रारब्धापरिसमाप्तःक्रियाप्रबन्ध इति मनसि निधायाह-वर्तमानार्थादिति । 'असक भूवि' अतस्तिवि अस्ति, अत्रात्मधारणानकूल क्रियायाः प्रारब्धत्वम्, तदीयस्थितेरुत्तरत्रानुवर्तनाच्चापरिसमाप्तत्वं स्फुटम् । 'डुपची पाके' अतस्तिवि शवि च-करं पचति । 'भक्षण अदने' असो गिवि तिवि शवि च--मांसं न भक्षयति,-- अत्र मांसभक्षणं न कर्तव्यमित्येवंरूपो नियम आत्मधर्मो विवक्षितः, तस्य सर्वदाऽसमाप्तत्वेन वर्तमाना: योग उचित एवेति । 'इङक अध्ययने' नित्यमधिपूर्वोऽयम, अतो वर्तमानाया उत्तमपुरुषबहुवचने महेप्रत्यये-इहाधीमहे,