________________
( ३४४ )
स्मे च वर्तमाना ।।२।१६। भूतानद्यनतनेऽर्थे वर्तमानाद्धातो: स्मे पुरादौ चोपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम् । वसन्तीह पुरा छात्राः । अथाह वर्णी ॥१६॥ स्म०-। पृच्छति स्म पुरोधसम्-'प्रछंत् ज्ञीप्सायाम्" स्वरेभ्यः' ।१।३।३०।' इति छस्य द्वित्वे पूर्वस्य चत्वे 'प्रन्छ' इत्यतस्तिवि'शविकरणे 'ग्रहनश्च०' ।४।१।१४। इति य्वृति-पृच्छति, पृष्टवानित्यर्थः, पुरोधसं पुरोहितम् । . वसन्तीह पुरा छात्रा इति-'वसं निवासे' अतोऽन्तिप्रत्यये शवि 'लुगस्या०'.. ।२।१।११३॥ इति पूर्वाकारलोपेच-वसन्ति,निवासं कृतवन्त इत्यर्थः। अथाऽऽहवर्णी-ब्रूगः' पञ्चानां०' ।४।२।११८ इति-आह । एवं च पुरादियोगें:द्यतनी-ह्यस्तनी-परोक्षा-वर्तम नाश्चतस्रोविभक्तयः सिद्धाः, स्मपुरायोगे तु परत्वाद्वर्तमानव-नटेन स्म पुराऽधीयते । एवं-हशश्वत्स्मयोगेऽपि-इतिह स्मोपाध्यायः कथयति, शश्वदधीयते स्म । त्रययोगेऽप्येवम्-न ह स्म वै पराऽग्निरपरशुवृक्णं दहतीति ।।१६।।
ननौ पृष्टौक्तौ सद्वत् ।।२।१७। ननावुपपदे पृष्टप्रतिवचने भूतेऽर्थे वर्तमानाद्धातोर्वर्तमानेव वर्त्तमाना स्यात् । किमकार्षीः कटं चैत्र । ननु करोमि भोः । नुन कुर्वन्तं मां पश्य ॥१७॥ ननौ०-। 'अनद्यतन' इति निवृत्तम् । पृष्टस्य धात्वर्थस्योक्तिः प्रतिवचनंपृष्टोक्तिरित्याह-पृष्टप्रतिवचने इति । सद्वद्वचनादत्र विषये शत्रानशावपि भवतः । तेन 'ननु' कुर्वन्तं मां पश्येति' सिद्धम् ‘डकृग् करणे' इत्यतोऽद्यतन्या' मध्यमपुरुषैवचने सौ, सिचि, सेरादावीति, वृद्धी, सस्य षत्वे, सेरिदित्त्वात् सस्य विसर्गेऽटि च-अकार्षीः । वर्तमानामिवि, उविकरणे, . धातोविकरणस्य गुणे-करोमि, अकार्षमिति तदर्थः । शतरि उविकरणे धातोर्गुणेऽस्य अतः शित्युत्' ।४।२।८६। इत्युकारे विकारणस्य वादेशे