________________
( ३४३ )
अविवक्षिते ।।२।१४॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद्धातोह्यस्तनी स्यात् । अहन कंसं किल वासुदेवः ॥१४॥
अविवक्षिते-। एवं परोक्षानद्यतने विवक्षावशादद्यतनी-शस्तनीपरोक्षास्तिस्रो विभक्तयः सिद्धाः ॥१४॥
वाऽद्यतनी पुरादौ ।५।२।१५॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद्धातोः पुरादावुपपदे अद्यतनी वा स्यात् । अवात्सुरिह पुरा छात्राः । पक्षे अवसन्। ऊषुर्वा । तदाभाषिष्ट राघवः । पक्षे अभाषत । बभाषे वा ॥१५॥ .
वाऽद्यतनी पुरादौन्। 'परोक्षे' इति निवृत्तम् । अपरोक्षे ह्यस्तन्याः परोक्षे तु परोक्षाया अपवाद: । वावचनात् पक्षे यथाप्राप्तितेऽपि भवतः । 'वसं निवासे' इति 'वस्' धातुः, ततोऽद्यतनो-प्रथमत्रिक-बहुवचनेऽनि सिचि 'सिज्विदोऽभूवः" ।४।२।१२। इत्यन पूसादेशे 'व्यञ्जनानामनिटि' ।४।३।४५। इत्युपान्त्यवृद्धौ ‘सस्तः सि' ।४।३।६२। इति धातुसकास्य तकारस्य · तकारेऽटि च=अवात्सुरिति । ह्यस्तनीप्रथम त्रिकबहुवचनेऽनि शवि पूर्वाकारलोपेऽटि च=अवसम् । परोक्षाप्रथम त्रिकबहुवचने उसि य्वति द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे समानदीप॑ च ऊषः । 'भाषि च व्यक्तायां वाचि' इति आ 'भाष' धातोरात्मनेपदेऽद्यतनीतप्रत्यये सिचि तस्यादाविटि सस्य षे तद्योगे तकारस्य टेऽटि च=अभाषिष्ट । ह्यस्तनीतप्रत्यये शवि अटि च=अभाषत । परोक्षाया एप्रत्यये द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे ह्रस्वे भस्य वेबभाषे। भतमात्रविवक्षयाऽद्यतन्या: सिद्धौ पुरादियोगे तद्वचनं स्मृत्यर्थहशश्वत्-स्मयोगे सामान्यविवक्षयाऽद्यतनी न भवतीति ज्ञापनार्थम् ।।१५॥