________________
( ३४२ )
-किल संप्रश्नवार्तयोः । विपूर्वस्य 'लप व्यक्त वचने' इत्यस्य 'परोक्षाणवि-विललापेति, स्वापसमये चित्तस्य निद्राधीनतया विक्षिप्तत्वेऽपि कृतस्य व्यापारस्य प्रत्यक्षत्वमुपपन्नम् । न चा-प्रत्यक्षविषयीभूतस्यार्थस्य पश्चादपि कथं स्मरणम्, अनुभवजन्यं ज्ञानं स्मृतिरिति लक्षणादिति वाच्यम्, स्वेन कृतस्य व्यापारस्य सर्वथानुभवाभावस्याशक्यतया तस्मिन् कालेऽनुभवस्यानुव्यवसायाभावेऽपि तस्य वस्तुती जातत्वेन स्मरणसम्भवात् । सूत्रेऽति ग्रहणादेकदेशापह्नवे ह्यस्तन्येव- .. न कलिङ्गषु ब्राह्मण-महमहनम् ॥११॥
परोक्षे ।।२।१२॥ भूतानद्यतने परोक्षार्थाद्धातोः परोक्षा स्यात् । धर्म दिदेश तीर्थङ्करः ॥१२॥ परोक्ष-। अक्षाणां परः परोक्षः, अत एव निर्देशात् साधु: अव्युत्पन्नो वा असाक्षात्कारार्थः ॥१२॥
ह शश्वद्य गान्तः प्रच्छय ह्यस्तनी च ।।२।१३। हे शश्वति च प्रयुक्त पञ्चवर्षमध्यप्रच्छये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोह्य स्तनोपरोक्षे स्याताम् । इति हाकरोत् । इति ह चकार । शश्वदकरोत् । शश्वच्चकार । किमगच्छस्त्वं मथुराम् । किं जगन्थ त्वं मथुराम् ॥१३॥ हशश्वद्- पञ्चवर्ष युगम्, तस्यान्तर्मध्यम्, तत्र पृच्छ्यते यः स युगान्तप्रच्छयः । स च भूतानद्यतनस्य परोक्षस्यार्थस्य विशेषणमित्याह-पञ्चवर्षमध्यप्रच्छ्य' इत्यादि । युगान्तःप्रच्छ्य इत्यस्योदाहरणमाह-किमगच्छस्त्वं मथुरामित्यादि-मथुरागमनं हि न युग-तो दूरवति, आसन्नस्यैवान पृच्छाविषयत्वात्, ततोऽधिकदिनस्य विषयतायां तु परोक्षैव स्यात् ॥१३॥