________________
( ३४१ )
विषयीभवितुमर्हतीति वाक्यगप्रोगोऽनुचितः स्यादिति । अभिजानासीत्यादि-अत्र यदः प्रयोगादस्याप्रवृत्त्या ह्यस्तनी भवति ॥६॥
वा काङ्क्षायाम् ।।२।१०। स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङक्षायां सत्यां भूतानद्यतनार्थाद्धातोर्भविष्यन्ती वा । स्यात् । स्मरसि मित्र काश्मीरेषु दत्स्यामोऽवसाम वा । तत्रौदनं भोक्ष्यामहे, अभुञ्जमहि वा ॥१०॥
अयदीति नानुवर्तते । स्मरसीत्यादि-अत्र वासो लक्षणं भोजनं लक्ष्यमिति लक्ष्यलक्षणयोः संबन्धे प्रयोक्तुराकाङ्क्षा भवति, यत्परार्थमुपादीयते तत. लक्षणम्, यदर्थ च किञ्चिदुपादीयते तत् लक्ष्यमिति भोजनार्थं वासः समाश्रित इति वासस्य लक्षणत्वं स्पष्टम्, एवं भोजनार्थ वास उपादीयत इति भोजनस्य लश्यत्वमपि स्पष्टमेव, अथवा परिज्ञातं लक्षणम्, अपरिज्ञातं लक्ष्यम्, वासो लक्षणं तेन हि भोजनं च लक्ष्यते, भोज़नं लक्ष्यम्, न तु लक्षणमपरिज्ञातत्वात्, परिज्ञातं हि अपरिझातस्य लक्षणं भवति, यथाऽग्नेधुम इति, लक्ष्यलक्षणयोश्च परस्परं सम्बन्धः प्रसिद्धः, प्रयोक्ता लक्षणे प्रयुक्त लक्ष्यं प्रति साकाङ्क्ष इति पूर्वक्रियायां लक्षण भूतायां लक्ष्यभूताऽन्या क्रिया प्रयोक्ताऽपक्ष्यत एव ॥१०॥
कृतास्मरणाऽतिनिन्हवे परोक्षा ।२।११। । कृतस्यापि चित्तविक्षेषादिनाऽस्मरणेऽत्यन्तनिन्हवे वा गम्ये भूतानद्यतनार्थाद्धातो परोक्षा स्यात् । सुप्तोहं किल विललाप । कलिङ्गषु ब्राह्मणो हतस्त्वया । नाई क लिङ्गान जगाम ॥११॥ कृताऽस्मरणा०-। अपरोक्षकालार्थ आरम्भः । सुप्तोऽहं किल विललापेति