________________
( ३४० )
ख्याते०-- ख्यातशब्दं व्याचष्टेलोकविज्ञाते इति न केवलं प्रयोक्त निविषयेऽपितु सकललोकप्रसिद्ध । दृश्यशब्दं व्याष्चटे चप्रयोक्त : शक्यदर्शने इतिसति प्रयत्ने प्रयोक्त्रा द्रष्टुयोग्ये विषय इत्यर्थः। यत्र प्रयोक्त्रा सोऽर्थो न दृष्ट: किन्तु तत्सत्त्वकाले समीप एव तस्यार्थस्य वृत्ततया दर्शनयोग्यता तस्य भवति । अत्र यद्यपि प्रयोक्त्राऽदृष्टत्वेन परोक्षत्वमिति परोक्षायाः प्राप्तिस्तथापि लोकख्यातत्वेन प्रयोक्ता तस्यार्थस्य स्वप्रत्यक्षत्वमिव मन्यते इति तद् द्योतयितुं परोक्षापवादो ह्यस्तनी विधीयत इति भावः । अरुणत् सिद्धरा- .. जोऽवन्तीमिति-सिद्धराजचरितस्य प्रयोक्त गन्थकृत्समये सकललोकविज्ञाततया भूतत्वेन तत्र सूत्रार्थघटनमिति भावः । 'रुध पी आवरणे' अतो ह्यस्तन्या दिवि 'रुधां स्वरा०' ।३।४।८२। इति स्वरात्परतः श्नविकरणे नस्य णेऽडागमे, धस्य ते च-अरुणत् । चकार कटमिति-कटादिकरणस्य साधारणकार्यतया कैश्चिदेव तत्समीपवर्तिभिष्टत्वेन ज्ञातत्वेन वा नं सकललोकख्यातत्वं तस्येति भावः । जघान कंसं किल वासुदेव इति-वासुदेवकर्तृ ककंसहननस्य प्रयोक्त दर्शनयोग्यत्वाभावः, तस्य तज्जन्मनो बहुकालपूर्ववृत्त-तया द्रष्टुमशक्यत्वात् । यदि च तत्समानकालवृत्तिरेव जनो वाष्यं प्रयुक्त तदा 'कंसमहन् वासुदेवः' इति प्रयोग इष्ट स्यादिति भावः । हनक हिसागत्योः' इत्यस्य परोक्षायां जघान ।।८।।
अयदि स्मृत्यर्थे भविष्यन्ती ।५।२६। स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थवृत्त तिोभविष्यन्ती. स्यात्, अयद्योगे। स्मरसि साधो स्वर्गे स्थास्यामः । अयदीति किम् । अभिजानासि मित्र यत्कलिङ्गेष्ववसाम ॥६॥
अयदि०-। 'भूते' 'अनद्यतने' इति पदद्वयं पूर्वतोऽनुवृत्तम् । 'स्मृत्यर्थे' इति पदं चतदर्थकधातुपरम्, स च धातुरिह सप्तम्यन्तेन निर्दिष्टत्वादुपपदं न तु प्रत्ययप्रकृतिः, तदाह-स्मृत्यर्थे धातावुपपदे इति । स्मरसि साधो। स्वर्गे स्थास्यामः--अत्र ‘पश्य मृगो धावति' इत्यादाविक वाक्यार्थस्यैव स्मरणकर्मत्वम् । इदं वाक्यं जातिस्मरणेन ज्ञा-निदृष्ट्या वा, नहि सर्वसाधारणेन जनेन पूर्वशरीरानुभूतं स्वर्गाधिकरणर्कस्थानं स्मरण