________________
( ३३६ )
विकैकवचनेऽमि सिचि 'व्यञ्जना०' ।४।३।४५। इत्युपान्त्यवृद्धौ ‘सस्तः सि' ।४।३।६२। इति धातुसकारस्य तेऽडागमे च-अवात्समिति भवति । स चेदित्यादिना कृतस्य नियमस्य फलमाह-रात्र्यन्त्ययामे इत्यादि--अत्राद्यतननिमित्ता हस्तन्येव परत्वात् भवतीति भावः ॥६॥
अनद्यतने शस्तनो शरा।
आ न्याय्यादुत्थानादान्याय्याच्चसंवेशनादहरुभयतः सार्द्धरात्रं वाऽद्यतनः। तस्मिन्नसति भूतार्थाद्धातोह्य स्तनी स्यात् । अकरोत
॥७॥
अनद्यतने- अनद्यतनशब्दस्याद्यतनभिन्नार्थकत्वादद्यतनशब्दार्थमाहआ न्याय्यादुत्थानादा'न्यायाच्च संवेशनादिति-न्याय्य उत्थानसमयो' रात्रेश्चतुर्थो यामः, रात्रेश्चतुर्थयामादारभ्या-गामिन्या रात्र: पूर्व यामत्रयं तदभिव्याप्येत्यर्थः, 'एतदवच्छिन्नमहोऽद्यतन इत्येक मतम् मतान्तरेणाहअहरुभयतः सार्धरात्रं वेति-अंतीतरात्र रन्त्ययामद्वयम्, वर्तमानदिनस्य यामचतुष्टयम्, आगामिन्या रात्रेराद्य यामद्वयमद्यतन इति मतान्तरमिति भावः। ह्यस्तनी-ह्यस्तनीति विभक्त नाम, न तावता ह्यस्तनकालवृत्तावर्थे तस्या विधानमिनि मन्तव्यम् अद्यतनभिन्नार्थत्वात् तस्याः। उदाहरति अकरोदिति-एककर्तृ काद्यतनभिन्नभूतार्थविषयक उत्पत्त्यनुकूलो व्यापार इति क्रमेणार्थः 'डुकृग् करणे' अतो ह्यस्तन्या दिवि 'कृरतनादेरुः' ।३।४।८३। इत्युविकरणे धातोगुणे विकरणस्य 'उश्नो' ।४।३।२। इति गुणेऽडागमे च-अकरोत् ॥७॥
ख्याते दृश्ो ।।२।। लोकविज्ञाते प्रयोक्तः शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानार्धातो
ह्य स्तनी स्यात् । अरुणसिद्ध राजोऽवन्तीम् । ख्यातं इति किम् । । चकार कटन् । दृश्य इति किम् । जघान कंसं किल वासुदेवः
॥८॥