________________
( ३३८ )
1
विशेषा० - अद्यतनेऽपि काले परोक्षत्वविवक्षायामद्यतनी नेष्टा, ह्यस्तनेऽपि कः ले ह्यस्तनत्वाविवक्षायां सेष्टेति पूर्वसूत्र ेण तत्सिद्धयभावादिदं सूत्र - मारब्धम् । अनद्यतना - दीत्यत्रादिपदेन परोक्षा ग्राह्या । व्यामिश्रणं - अद्यतन्या विषयेण सहानद्यतन्यादिविषयस्य सन्दिग्धरूपतया विवक्षितत्वम्, तत्रानद्यतननिमित्तां ह्यस्तनीं वारयितुमद्यतनी विधीयते । गमेरद्यनौदावङि अडागमे च - रामो वनमगसत् सतोऽप्यत्र विशेषस्याविवक्षा, यथा-अनुदरा कन्येति । 'भुजं पालनाभ्यवहारयो' अभ्यवहारो भोजनम्, तत्र पालने परस्मैपदम्, भोजनादौ तु 'भुनजोऽत्रा' | ३|३|३७| इत्यात्मनेपदेऽद्यतन तृतीयत्रिकबहुवचने महिप्रत्यये सिचि अनुस्वारेत्वादिडभावे 'सिजाशिषा ०' | ४ | ३ | ३५ | सिचः कित्त्वाद् गुणाभावे 'चजः कगम्' | २|११८६ | इति जस्य गत्वे 'अघोषे प्रथमोऽशिट : ' | १| ३ |५० । इति गस्य कत्वे 'नाम्यन्तस्था०' | २|३ | १५ | इति सस्य षत्वेऽडागमे च अभुक्ष्महि ||५||
रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य |५|२६|
रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात् स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्त्थास्वप्तरि कर्त्तरि स्यात् । अद्यतनेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत्प्रयोगोऽस्ति नाद्यतनान्तरे । अमुत्रावात्सम् । रात्र्यऽन्त्ययामे तु मुहूर्तमपि स्वापेऽमुत्रावसमिति ॥ ६ ॥
रात्रौ ० - अतीताया रात्रः पूर्वार्धस्य मतान्तरेण प्रहरत्रयस्य वाऽनद्यत - नत्वेन तत्र ह्यस्तन्याः प्राप्ते 'येन नाप्राप्ते यो विधिरारभ्यते स तस्य वाधको भवति' इति न्यायेनास्य तदपवादत्वस्यौचित्याद् ह्यस्तन्या अपवादोऽयं योगः । अन्त्ययामास्वप्तरीति पदं व्याचष्टे - स चेदर्थो इत्यादि । अद्य इत्यस्यार्थमाह- अद्यतनेनैवा इत्यादि । अमुवावात्समिति-याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्वित् कचिदाह - क्व भवानुषितः ? स तं प्रति उत्तररूपेणेदं वाक्यमाह - अमुत्रावात्सम् । अत्र यद्यप्यनद्यतनत्वं वासक्रियायां स्पष्टम्, तथापि विशेषविहितत्वादनद्यतननिमित्तां ह्यस्तनीं प्रबाध्याद्यतनी - विधीयतेऽनेनेति भावः 'वसं निवासे' अतोऽद्यतनी तृतीय