________________
( ३३७ )
E
वि द्वित्वे 'नामिनो०' ।४।३॥५१॥ इति वृद्धौ ‘पूर्वस्यास्वे.' ।४।१।३७। इति पूर्वस्येयादेशे= उपेयाय । अश्नातेरद्यन्यादौ सिचि, तस्येटि, देरीति, सिनो लुपि, आद्यस्वरवृद्धी समानदीचे च---आशीत्, तेन नत्रा योगे नाशीत् इति वाक्यम् ह्यस्तनीदिवि, श्नाविकरणे, वृद्धी,नञा योगे च नाश्नादिति वाक्यम् । परोक्षाणवि द्वित्वे पूर्वस्यानादिव्यञ्जनलोपेऽत आकारे=आश, नजायोगे नाशेति वाक्यम् अनुपूर्वाद् वचेरद्यतन्या दो 'शास्त्यसू०' ।३।४।६० इत्यङि 'श्वयत्यसू' ।४।३।१०४। इत्यनेन धातोर्वोचादेशेऽडागमेच=अन्ववोचत् । प्रतिपदोक्तस्यवचे 'व्यञ्जनाद्दे:०' ।४।३।७८। इति दिवो लोपेऽडागमे चस्य 'चजः कगम्' ।२।१।८६। इति कत्वे च=अन्ववक्। हस्तन्यां ब्रगो वचा देशाभावे 'ब्रूतः परादिः' ।४।३।६३। इतीति गुणेऽवादेशेऽडागमे चअन्वब्रवीत् । लक्षणपतिपदोक्तयोः वचोः परोक्षाणवि, द्वित्वे, पूर्वस्यानादिव्यञ्जनलोपे, सस्वरस्य पूर्ववकास्य वृति उकारे, उपान्त्य वृद्धीअनूवाच ।।३।।
अद्यतनी ।।२।४॥ भूतार्थाद्धातोरद्यतनी स्यात् । अकार्षीत् ॥४॥ अद्यतनी-भूतार्थादिति-भूतशब्देन भूतकालवृत्तित्वरूपोऽर्थ उच्यते, तथा च भतकालवृत्तावर्थे स्वार्थे वर्तमानाद धातोरिति; नहि धातर्भते वर्तते तस्य शब्दस्वरूपत्वेन सदावर्तमानत्वात्, किन्तु तदर्थभूता क्रिया भतकालविषयिणी वाच्या इयं चाद्यतनी ह्यस्तन्यादिभिः परत्वाद् बाध्यत इत्यद्यतनमात्रविषया विज्ञया । 'डकृग करणे' अतोऽद्यतनीदी, सिचि, . 'स: सिज०' ।४।३।६५। इति देरीति, 'सिचि परस्मै०' ।४।३।४४। इति वृद्धौवडागमे संस्य षे च ॥५॥
विशेषाऽविवक्षाव्यामिश्रे ।५।२॥५॥ अनद्यतनादिविशेषाऽविवक्षायां व्यामिश्रणे च सति भूतार्थाद्धातोरद्यतनी स्यात् । रामो वनम् गमत् । अद्य ह्यो वाऽभुक्ष्महि