________________
( ३३६ )
द्वित्वाभावे च पेचानः । भताधिकारेणैवोक्त परोक्षाविषयत्वे लब्धे 'तत्र' ग्रहणं परोक्षामात्रप्रतिपत्त्यर्थम् तेन पेचिवान्' इत्यादि सिद्धम् || २ ||
वेयिवदनाश्वदनूचानम् | ५ | २|३|
एते भूतेऽर्थे क्वसुकानान्ताः कर्त्तरि वा निपात्यन्ते । समीयिवान्। अनाश्वान् । अनूचानः । पक्षे । अगात् । उपैत् । उपेयाय । नाशीत् । नाश्नात् । नाश । अन्ववोचत् । अन्ववक् । अन्वब्रवीत् । अनूवाच | ३||
,
वेविद० - पूर्वसूत्रेण परोक्षामात्रविषयेविहितो, किञ्च धातुमात्रात् तो द्वावपि विहितो, इह च भूतमात्रे धातुविशेषात् क्वसुर्धातुविशेषाच्च कान इष्ट इति, किञ्चान्यदपि किञ्चिदलाक्षणिकं कार्यं वक्ष्यमाणरीत्या सम्पाद - नीयमिति निपातनमारभ्यते । समीयिवनिति । अत्र निपातन - सामर्थ्यात् क्वसुरेव न कानः । सम्पूर्वस्य 'इ'गती' इति धातो. क्वसौ" घसेकस्वरात ०" | ४ |४| ४८ द्वित्वे " योऽनेकस्वरस्य ” | २|१|५६ । इति यत्वापवादे" इण: " ।२।१।५१। इतीयादेशे समानदीर्घे "समीयिवस्" शब्दस्य सौ- समीयिवान् । 'अशश् भोजने'' इति 'अश्' धातोः क्वसौ द्वित्वे पूर्वस्यानादिव्यञ्जनलोsa आकारे समानदीर्घे ङस्युक्तसमासे नत्रोऽनादेशे 'अनाश्वस्'- - शब्दस्य सौ - अनाश्वानिति निपातनसामर्थ्यात् क्वसुरेव भवति न कानः, घसेकस्वरातः ' | ४|४|२| इतीट् प्राप्तस्तदभावश्च निपातनात् भवति । 'अनूचान इति । अनुपूर्वीत् 'वचं भाषणे' इत्यतः, अथया 'ब्रू' ग्क् व्यक्तायां । वाचि' इति ब्रधातोः स्थाने 'अस्ति ब्रुवो०' | ४|४|१| इति वचादेशादनुपूर्वात् कर्तरि काने सति 'यजादि ० ' | ४|४|१|| इति स्वरसहितवकारस्य वृति - उकारे ततो द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे समानदीर्घे च- अनूचानः, निपातनसामर्थ्यादत्र क्वसुर्न भवति । निपातनस्येष्टविषयत्वात् कर्तुं रन्यत्र' अनुक्त' इत्येव भवति । वावचनात् पक्षेऽद्यतन्यादयोऽपि भवतीत्याह - पक्षे अगात् इत्यादि । इणोऽद्यन्यां 'इणिकोर्गा' | ४|४| २३ | इति गादेशे 'पिबेति' ३|४| ६६ । इति सिचो लोपेऽडागमे च - अगात् । उपपूर्वस्येणो ह्यस्तन्या दिवि 'एत्यस्ते द्धि' | ४|४|३०| इति वृद्धौ - उपैत् । उपपूर्वस्य परोक्षाण