________________
( ३३५ )
. दिवि तु 'श्रोति०' | ४|२| १०८ । इति सीदादेशे, शवि अडागमे च - उपासीदत् । 'वस्' धातोरद्यतनीदो सिचि 'सस्तः सि' | ४ | ३ |२| इति धातुसकारस्य तकारे 'व्यञ्जनाना० ' | ४ | ३ | ४५ ॥ इत्युपान्त्यवृद्धावडागमे च अन्ववात्सीत् । ह्यस्तनीदिव तु शवि अडागमे च = अन्ववसत् । बहुवचनं व्याप्त्यर्थम् तेन भूतानद्यतनेऽपीयं ह्यस्तन्या न बाध्यते रूपत्वात् 'असरूपोऽपवादे० ' | ५|१|१६ । इत्येवाद्यतन्यादिसिद्धौ बा - aai 'त्यादिष्वन्योन्यं नासरूपोत्सर्गविधिरिति न्यायं ज्ञापयति ॥१॥
अस
तत्र क्वसु-कानौ तद्वत् |५|२|२|
परोक्षामात्रविषये धातोः परौ क्वसुकानौ स्यातां तौ च परोक्षेव । शुश्रुवान् । सेदिवान् । ऊषिवान् । पेचिवान् । पेचानः ॥२॥
1
O
,
तत्र क्वसु० - । 'तत्त्र' इत्यस्यार्थमाह = परोक्षामात्रविषये इति = परोक्षामात्रं परोक्षासांमान्यम्, न केवलं पूर्वसूत्रविहिता परोक्षैवेति भावः । क्वसुकानाविति = | अत्र 'क्वसुः ' ' कर्तरि' | ५|9|३ | इति कर्तरि भवति । क्वसौ ककारः कित्कार्यगुणाभावाद्यर्थः, उकारे नागमाद्यर्थः, 'वस' इत्यवशिष्यते । कानस्य 'पराणि कानाऽऽनशी०' | ३ | ३|२०| इत्यात्मनेपदसंज्ञाविधानात् स ' तत्साप्या०' | ३|३|२१| इति भावकर्मणोः, 'इङितः ०' | ३|३|२२| इति कर्तरि 'ईगित:' | ३ | ३६५ इति फलवति कर्तरि चः भवति । काने ककारः कित्कार्यार्थः, 'आन' इत्यवशिष्यते । 'श्रुट् श्रवणे' अनोऽनेन सूत्रेण क्वसौ तस्य परोक्षावद्भावेन द्वित्वे पूर्वस्यानादिव्यञ्ज'नलोपे 'शुश्रवस्' शब्दः, तस्य सौ = शुश्रुवानिति । 'षद्लृ' विशरणगत्यसादनेषु' अतः क्वसो 'अनादेशादे० ' | ४|१|२४ । इत्यत एकारे द्वित्वनिषेधे 'घसेकस्वरातः ०' | ४|४|२| इतीटि 'सेदिवस्' शब्दः, तस्मात्सौ = सेदिवानिति, 'वसं निवासे' अतः क्वसौ 'यजादि ० ' |४|१/७२ | इति य्वृति, सस्वखस्योकारे द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे समानदीर्घे 'घस्वसः' |२| ३ | ३६ | इति सस्य षे 'घ सेकस्वरातः ० ' | ४|४|११ । इतीटि 'उषिवस्' शब्दस्य सौ = उषिवानिति । 'डुपचष् पाके' अतः क्वसौ, अत एकारे, द्वित्वाभावे, इटि च पेचिवानिति । 'पच्' धातोरीदित्त्वात् फलवति कर्तर्यात्मनेपदे काने तस्य परोक्षावद्भावादत एकारे