________________
अथ पञ्चमाध्याये द्वितीयः पादः
-
-
श्रुसदवस्भ्यः परोक्षा वा ।।२।१॥ एभ्यो भूतार्थेभ्यः परोक्षा वा स्यात् । उपशुश्राव । उपससाद । अनूवास। पक्षे। उपाश्रौषीत् । उपाशृणोत्। उपासदत् । अन्ववात्सीत् । अन्ववसत् ॥१॥ श्रुसद०-भत इति अनुवर्तते इत्याह भूतार्थेभ्यः इति भूतार्थमात्रे परोक्षा भवति, तत्र न परोक्षत्वविवक्षाया• आवश्यकतेति भावः । "श्रुट् श्रवणे" इत्यतः परोक्षाणवि "द्विर्धातुः०" ।४।१।१। इति द्वित्वे सति 'श्रश्र' इति ततो "व्यञ्जनस्या०" ।४।१।४४। इंति पूर्वस्यानादिव्यञ्जनलोपे 'शुश्रु' इति, ततो "नामिनो०" ।४।३।५१॥ इति वृद्धी शुश्री' इति, "ओदौतो." ।१।२।२४॥ इत्यावादेशे उपेन योगे=उपशुश्राव । 'षद्लु विशरणगत्यवसादनेषु" विशरणं शंटनम्, अवसादोऽनुत्साहः, अतो णवि द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे “णिति" ।४।३।५०। इत्युपान्प्यवृद्धौ-उपससाद । 'वसं निवासे' अतो णवि द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे सस्वरस्य वकारस्य च 'यजादि०" ।४।१।७२।। इति य्वति-ऊकारे उपान्त्यवद्धौ अनूना योगे समानदीचे च-अनुवास । अद्यतनभतकाले 'अद्यतनी' ।५।२।४॥ इत्यद्यतनी विभक्तिर्भवतीति श्रधातोरद्यतन्या दिप्रत्यये 'सिजद्यतन्याम्'३।४।५३ इति सिचि 'स: सिज०' । ।४।३।५।। इतीति 'सिचि परस्मैः' ।४।३।३५। इति वद्धौ ‘अड धातो.' ।४।४।२६। इत्यडागमे 'नाम्यन्तस्था०' ।।३।१५। इति सस्य षत्वे-उपाश्रौषीत् । अनद्यतनभूतकाले 'अनद्यतने ह्यस्तनी" ।५।२।७। इति शस्तनी विभक्ति भवतीति श्रधातो-ह्य स्तन्या दिवि तु श्रौति०" ।४।२।१०८। इति 'शू' इत्यादेशे 'श्वादेः अनुः' ।३।४।७५। अनुविकरणे 'भ्र श्नोः' . ।२।१॥५३॥ इति गुणेऽडागमे च उपाशृणोत् । सद्धातोरद्यतनीदौ लुदित्त्वात् ‘लदिद्' ।३।४।६४। इत्यडि अडागमे च-उषासदत् । ह्यस्तन्या