________________
( ३३३ )
अनुजः-अनुजातः । न जातोऽजः । अजातिव्यभिचारमाह-स्त्रिया जातं-स्त्रीजम् । उपपदव्यभिचारं प्रपञ्च्य प्रकृतिव्यभिचारमाह-ज्यांश् हानो' ब्रह्मणि जीनवानिति ब्रह्मज्य इति-अत्रोपपदस्य सत्त्वे धातोरन्यत्वमिति भावः । उपपदधातूभयव्यभिचारमाह-हनंक हिंसागत्योः' वरमाहतवानिति-वराहः । उपपदधातुकारकव्यभिचारमाह-'खनूग् अवदारणे' आखात:-आखः ॥१७१॥
सुयजोङवनिप् ।।१।१७ । आभ्यां भूताभ्यां वनिप् स्यात् । सुत्वानौ । यज्वा ॥१७२॥ सुयजो० । “सुगट् अभिषवे""यजी देवपूजासंगतिकारणदानेषु"वनिपि वन्' अवशिष्यते शेषा अनुवन्धा ङ कारो गुणानिषेधार्थः,पकारः पित्कार्यार्थः इकार उच्चारणार्थः । सुतवन्ताविति-सुत्वानौ । इष्टवानितियज्वा । “मन्-वन्" 1५।१४७। इति सामान्यसूत्रविहिताभ्यां क्वनिप्-वन्भ्यां सिद्ध भूते नियमार्थं वचनम् । मन्नादि-सूत्रस्थक्वचिद्ग्रहणस्यैव प्रपञ्चः ।।१७२।।
ज़ षोऽतृः ।।१।१३।
ज़ षेर्भूतार्थादतः स्यात् । जरती ॥१७३॥ ज़ पोऽतृ०-। "ज पच जरसि' अतृ-प्रत्यये ऋकारोऽनुबन्धः । जीर्यति स्मेति अतृप्रत्यये गुणे ऋदित्त्वात् स्त्रियां "अधातूदृदितः" ॥२४।२। इति ड्यां-जरती । उकारानुबन्धं कृत्वा ऋकारानुबन्ध "अभ्वादे:०"।१।४।६० इति दीर्घत्वप्रतिषेधार्थः ।।१७३।।
क्तक्तवतू ।।१।१७४।
भूतार्थाद्धातोरेतौ स्याताम् । कृतः । कृतवान् ॥१७४॥ . क्तक्तवतू०-। "डुकृग् करणे" अनुस्वारेत्त्वादनिट, क्रियते स्मेति-कृतः
"तत्साप्या०" ।३।३।२१। इति कर्मणि क्तः । करोति स्मेति क्तवतीकृतवान् “कर्तरि" इति क्तवतुः ।।१७४॥
इति पञ्माध्याये प्रथमः पादः .