________________
( ३३२ )
व पुमनुजः इति-यस्याग्रजः पुमान् स एवमुच्यते। अनुपूर्वो जनिर्जननोपसर्जनायां प्राप्ती वर्तमानः सकर्मकः ॥१६८।।
सप्तम्याः ।।१।१६६। सप्तम्यन्ताह ताज्जनेर्डः स्यात् । मन्दुरजः ॥१६॥ . सप्तम्या:-- अयोग्यतया कर्मण इति न सम्बध्यते, नहि सप्तम्यन्तस्य । कर्मत्वं सम्भवति । मन्दुरा-अश्वशाला, पुस्त्रीलिङ्गः, तत्र जात इति - .. मन्दुरजः, ‘ड्यापो० ।२।४।६६। इति ह्रस्वः ।।१६६।।
अजातेः पञ्चस्याः ।।१।१७० . . . पञ्चम्यन्तादजात्यर्थात् भूतार्थात् जनेर्डः स्यात् । बुद्धिजः । अजातेरिति किम् । गजाज्जातः ॥१७०॥ अजाते:०। बुद्धर्जातो-बुद्धिजः । गजात् जात इति-गजशब्दस्य तत्सज्जातिप्रवृत्तिनिमित्त-त्वमिति नात्र प्रत्ययोऽपितु वाक्यमेव तिष्ठतीति भावः । गजस्याकृतिग्राह्यत्वेन 'आकृतिग्रहणा जातिः' इति वचनाज्जातित्वमवसेयमिति ।।१७०।।
क्वचित् ।।१।१७१। उक्तादन्यत्रापि यथालक्ष्यं डः स्यात् । किञ्जः । अनुजः । अजः । स्त्रीजः। ब्रह्मज्यः । वराहः । आखः ॥१७१॥
क्वचित-। उक्तादन्यत्रापीति-यान्युपपदानि यश्च धातुः पूर्वसूत्रेषु निर्दिष्टस्तेभ्योऽन्येष्वप्युपपदेषु सत्सु, अन्यस्मादपि धातोरयं प्रत्ययो । भवतीति भावः । उपपदव्यभिचारमाह-किञ्जइति-किं जातेनेति किञ्जः, केन जात इति वा किजः, अनितिपितृकः । कर्मणो व्यभिचारमाह