________________
( ३३१ )
क्विपि, तागमे, ङस्युक्तसमासे च श्येनचितु, श्येनाकारतया निर्मित इति भावः । बहुलाधिकाराद् ढिविषय एवायं द्रष्टव्यः ॥१६५॥
वृशः क्वनिप् ।५।१।१६६॥ व्याप्यात्परात् भूतार्थात् दृशेः क्वनिप् स्यात् । बहुदृश्वा ॥१६६॥ दृशः क्वनिप्- दृशृक्षणे" बहून् दृष्टवानिति क्वनिपि कित्त्वात गुणाभावे बहुदृश्वा 'मन्वन्' ।५।१।१४७॥ इति क्वनिपि सिद्ध भूतकाले प्रत्ययान्तरबाधनार्थं वचनम् ॥१६६॥
सहराजभ्यां कृग्युधेः ।।१।१६७। आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्च क्वनिप् स्यात् । सह कृत्वा । सहयुध्वा । राजकृत्वा । राजयुध्वा ॥१६७॥ सहराज०-। प्रत्ययान्तरबाधनार्थोऽयं योगः । वचनभेदेन निर्देशादिह न यथासंख्यमित्याह-आभ्यां कर्मभ्यामित्यादि । क्वनिपि ककार: कित्कार्यगुणाभावार्थः, पकारः पित्कार्यतागमार्थः, इकार उच्चारणार्थः, 'वन्' इत्यवशिष्यते। 'डुकृग् करणे' सह कृतवानिति-सहकृत्वा । 'युधिच् सम्प्रहारे' सह युद्धवानिति-सहयुध्वा । राजानं कृतवान्, राजानं योधितवानिति-राजकृत्वा, राजयुध्वा । युधिरत्रान्तर्भूतण्यर्थः सकर्मकः • ॥१६७॥ ..
अनोजने ड: ।।१।१६८॥
कर्मणः परादनुपूर्वात् भूतार्थाज्जनेर्डः स्यात् । पुमनुजः ॥१६८॥ अनोजनेंर्ड:- । 'जनैचि प्रादुर्भावे' डप्रत्यये डकारोऽन्त्यस्वरादिलोपार्थः, अकारोऽवशिष्यते । पुमांसमनुजात इति डेऽन्त्यस्वरादिलोपे डम्युक्तसमासे