________________
( ३३० )
सुकृत् । इदमपि नियमार्थं वचनम् । त्रिविधश्चात नियमः । एभ्य कृग एव भूते क्विप् नान्यस्माद् धातो:, तथा एभ्यः कृगो भूत एव क्विप्, तथा एभ्यः परात् कृगो भूते क्विबेव नान्यः प्रत्ययः ॥ १६२॥
सोमात्सुगः ५।१।१६३।
सोमाद्वद्याप्यात्परात् भूतार्थात् सुगः क्वित् स्यात् । सोमसुत् 1198311
सोमात्० ० - । " षु ग्ट् अभिषवे" अभिषवः क्लेदनं सन्धानाख्यं पीडन मन्थने वा सोमं सुतवानिति क्विपि तागमे च सोमसुत् । अयमपि नियमार्थो योगः । चतुर्विधश्चात्र नियमः । सोमादेव, सुगं एव, भूत एव, क्विति ॥१६३||
अग्नेश्चे: ।५।१।१६४ ॥
अग्नेर्व्याप्यात्परात् भूतार्थाच्चेः विवप् स्यात् । अग्निचित् ॥१६४
अग्नेश्चेः । “चिट्र चयने" अग्नि चितवानिति क्विपि तागमे च अग्निचित् । अत्रापि चतुर्विधो नियमः । अग्नेरेव, चेरेव, भूत एव क्विवेवेति
1
।।१६४।।
कर्मण्यग्न्यर्थे |५|१|१६५।
कर्मणः परात् भूतार्थाच्चेः कर्मण्यग्न्यर्थे क्विप् स्यात् । श्येनचित् ॥ १६५॥
कर्मण्य० - । कर्मण्यग्न्यर्थ इति - कर्मैवोपपदं तदेव च प्रत्ययार्थः, तच्च कर्माग्निनिमित्तकं चेद् भवेदिति समुदितोऽर्थः । श्येन इव चीयते स्मृति